Enter your Email Address to subscribe to our newsletters

जयपुरम्, 18 दिसंबरमासः (हि.स.)।मुख्यमंत्री भजनलाल शर्मा अद्य राजस्थानराज्यप्रदूषणनियन्त्रणमण्डलेन (आरएसपीसीबी) आयोजितस्य “हरियालो राजस्थान पर्यावरण कॉनक्लेव” इत्यस्य जयपुरस्थिते होटल् मैरियट् मध्ये शुभारम्भं करिष्यति।
शर्मा हरियालो राजस्थान पर्यावरण कॉनक्लेवस्य अवसरॆ राजस्थानस्य हरितअर्थव्यवस्थायाः आधारेण निर्मितायाः प्रदर्शिन्याः उद्घाटनं करिष्यति तथा “मेरी लाइफ – सस्टेनेबल लाइफस्टाइल फॉर एन्वायरमेंट्” इति पोस्टरस्य विमोचनं च करिष्यति।
अस्मिन् अवसरे संसदीयकार्य–विधिमन्त्री जोगाराम पटेलः, वन–पर्यावरणराज्यमन्त्री संजय शर्मा, मुख्यसचिवः वी. श्रीनिवासः, अतिरिक्तमुख्यसचिवः (वन, पर्यावरण एवं जलवायु परिवर्तन) आनन्दकुमारः तथा राजस्थानराज्यप्रदूषणनियन्त्रणमण्डलस्य अध्यक्षः आलोक गुप्तः उपस्थिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार