विद्युत कनेक्शनसंबद्धेभ्यः आवेदकेभ्यः केबल टेस्टिंग शुल्के शैथिल्यम्
जयपुरम्, 18 दिसंबरमासः (हि.स.)।जयपुर विद्युत् वितरणनिगमेन विद्युत् संयोजनार्थं आवेदनकर्तॄणां कृते केबल् परीक्षणशुल्के महती रियायत् प्रदत्ता अस्ति। विगतवर्षेषु परीक्षणशुल्के निरन्तरं वृद्धिः अभवत्। एषः प्रथमः अवसरः अस्ति यस्मिन् विद्युत् केबल् परीक्
केबल टेस्टिंग शुल्क में रियायत


जयपुरम्, 18 दिसंबरमासः (हि.स.)।जयपुर विद्युत् वितरणनिगमेन विद्युत् संयोजनार्थं आवेदनकर्तॄणां कृते केबल् परीक्षणशुल्के महती रियायत् प्रदत्ता अस्ति। विगतवर्षेषु परीक्षणशुल्के निरन्तरं वृद्धिः अभवत्। एषः प्रथमः अवसरः अस्ति यस्मिन् विद्युत् केबल् परीक्षणशुल्कं एतावता स्तरं यावत् न्यूनं कृत्वा उपभोक्तेभ्यः विशेषशैथिल्यं प्रदत्तम् अस्ति।

लघुउद्योगभारती, यूकोरी इत्यादयः तथा प्रदेशस्य अन्यानि औद्योगिकसंगठनानि एतस्मिन् विषये राज्यसर्वकारात् राहतं याचितवन्तः आसन्। तस्मिन् विषये सकारात्मकनिर्णयं स्वीकृत्य जयपुर डिस्कॉमेन बुधवासरे एचटी तथा एलटी संयोजनेषु केबल् परीक्षणशुल्के २० प्रतिशततः ६२ प्रतिशतपर्यन्तं रियायत् प्रदत्ता अस्ति।

एचटी श्रेण्याः संयोजनाय केबल् परीक्षणे यत् अधिकतमं शुल्कं ८१ सहस्रं ३८१ रूप्यकाणि आसीत्, तत् घटयित्वा ५५ सहस्रं रूप्यकाणि कृतम्। तथैव एलटी श्रेण्याः कृते अधिकतमं केबल् परीक्षणशुल्कं ५४ सहस्रं २५७ रूप्यकाणां स्थाने २० सहस्रं ७५० रूप्यकाणि कृतम्।

निगमस्य अस्य निर्णयस्य सर्वाधिकं लाभं तेषां उद्यमिनां, मॉल्, वाणिज्यसमुच्चय, आवासीयबहुस्तरीयभवनादीनां विद्युतीकरणार्थं आवेदनं कुर्वतां जनानां भविष्यति, ये संयोजनार्थं स्वयमेव केबल् स्थापयन्ति। सुरक्षोद्देशेन एतेषां केबलानां डिस्कॉमस्य केन्द्रीयपरीक्षणप्रयोगशालायां परीक्षणं करणीयं भवति, तस्य एव प्रतिफलरूपेण परीक्षणशुल्कं ग्राह्यते।

निगमेन अन्येषां राज्यानां डिस्कॉम्स् संस्थानानां अध्ययनं कृत्वा केबल् शुल्कं तर्कसङ्गतं कृतम्। डिस्कॉम समन्वय फोरमस्य बैठके गृहीतनिर्णयानुसारं अधीक्षण अभियन्त्रा (निरीक्षण एवं भण्डार) एतद्विषये आदेशाः निर्गताः।

एचटी संयोजनार्थं विद्युत् केबल् परीक्षणशुल्के न्यूनतमं ८ सहस्रं ३०० रूप्यकाणां तथा अधिकतमं २६ सहस्रं ३८१ रूप्यकाणां कमी कृता अस्ति। तथैव एलटी संयोजनार्थं विद्युत् केबल् परीक्षणशुल्के न्यूनतमं ६ सहस्रं ६१८ रूप्यकाणां तथा अधिकतमं ३३ सहस्रं ५०७ रूप्यकाणां न्यूनता कृता अस्ति।

---------------

हिन्दुस्थान समाचार