उत्तर प्रदेश सर्वकारस्य कथनेन इतर नोएडायां पिहिताः 492 औद्योगिकैकाः
नोएडा, 18 दिसंबरमासः(हि.स.)।एकस्मिन् पक्षे उत्तरप्रदेशसर्वकारः एतत् दावां करोति यत् उत्तरप्रदेशे देशविदेशाभ्यां प्रचुरं निवेशं प्रवहति, अपरस्मिन् पक्षे तु आश्चर्यजनकं तथ्यं प्रकाशं प्राप्तम् अस्ति। नोएडानगरे निरन्तरं औद्योगिकसंस्थाः पिहिताः भवन्ति
प्रतीकात्मक छवि


नोएडा, 18 दिसंबरमासः(हि.स.)।एकस्मिन् पक्षे उत्तरप्रदेशसर्वकारः एतत् दावां करोति यत् उत्तरप्रदेशे देशविदेशाभ्यां प्रचुरं निवेशं प्रवहति, अपरस्मिन् पक्षे तु आश्चर्यजनकं तथ्यं प्रकाशं प्राप्तम् अस्ति। नोएडानगरे निरन्तरं औद्योगिकसंस्थाः पिहिताः भवन्ति। शासनस्तरेण यदा जाँचं कारितं तदा ज्ञातं यत् नोएडायां ४९२ औद्योगिक्यः संस्थाः पूर्णतया बन्दाः सन्ति अथवा अधुना क्रियाशीलाः न सन्ति। अस्मिन् विषये उत्तरप्रदेशशासनेन नोएडाप्राधिकरणात् स्पष्टीकरणं याचितम्।

नोएडाप्राधिकरणस्य अधिकारिणः वदन्ति यत् ते स्वस्तरेण पुनः जाँचं कारयिष्यन्ति। उल्लेखनीयं यत् अतीते प्राधिकरणस्य अधिकारिणः कम्पन्यः बन्दाः न सन्तीति दावां कुर्वन्तः आसन्। नगरस्य विभिन्नभागेषु नोएडाप्राधिकरणद्वारा प्रायः ११ सहस्राणि औद्योगिकभूखण्डाः आवण्टिताः सन्ति। एते भूखण्डाः फेज्–वन, फेज्–टू, फेज्–थ्री, हौजरी कम्प्लेक्स्, एनएसईजेड् इत्यादिषु स्थलेषु स्थिताः सन्ति।

गतवर्षेषु या औद्योगिकाः इकायाः नोएडायां स्थापिताः आसन्, ताः शनैः शनैः पिहिताःभवन्ति। किञ्चित्कालपूर्वं शासनस्तरेण नियुक्तया एका एजेन्स्या नोएडाविषयेऽन्वेषणं कृतवती। तस्यां जाँचायां ज्ञातं यत् अत्र ४९२ औद्योगिकाः कम्पन्यः बन्दाः सन्ति। संस्थायाः कर्मचारिणः स्थलपर्यटनकाले सम्बन्धिताः इकायाः क्रियाशीलाः न अद्राक्षुः।

शासनः एतां प्रतिवेदनं नोएडाप्राधिकरणं प्रति प्रेष्य स्पष्टीकरणं याचितवान्। अस्मिन् विषये नोएडाप्राधिकरणस्य अधिकारिणां एका गोष्ठी अपि अभवत्। बैठके शासनद्वारा कारितस्य निरीक्षणस्य प्रतिवेदनं स्थापयित्वा औद्योगिकविकासविभागस्य अधिकारिभ्यः उत्तरं याचितम्।

अस्मिन् सन्दर्भे नोएडाप्राधिकरणस्य एसीईओ सतीशपालः अवदत् यत् शासनस्तरेण कारितायां अन्वेषिकायां ४९२ औद्योगिकाः एकिकाः अक्रियाशीलाः दृष्टाः। अधुना तासां पुनः निरीक्षणं कृत्वा नवीनं प्रतिवेदनं सिद्धं करिष्यते।

---------------

हिन्दुस्थान समाचार