Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, १८ दिसम्बरमासः (हि.स.)।
बिहारस्य उपमुख्यमन्त्री सम्राटचौधरी अवदत् यत् बिहारविशेषसशस्त्रारक्षक–१ (गोरखावाहिनी)-सह अतिरिक्तप्रशिक्षणकेन्द्रस्य स्थायीस्थापनायै तथा आधारभूतसंरचनानां निर्माणाय पाटलिपुत्रजनपदस्य नौबतपुर-अञ्चलस्य अन्तर्गतं मौजा–चर्रास्थाने ३० एकड्परिमितायाः भूमेः भू-अर्जनयोजनायै स्वीकृतिः प्रदत्ता अस्ति।
सम्राटचौधरी गुरुवासरे अत्र अवदत् यत् अस्याः योजनायाः कृते चत्वारिंशत्कोटि-पञ्चपञ्चाशत्लक्ष-एकचत्वारिंशत्सहस्र-अष्टत्रिंशतरूप्यकाणां राशि निर्धारिता अस्ति। उपमुख्यमन्त्री अवदत् यत् चिन्हिता भूमिः नौबतपुरमुख्यालयात् प्रायः ६.५ किलोमीटरदूरीस्थिता अस्ति तथा बिहटासरमेरामार्गेण सह संलग्ना अस्ति, या रणनीतिकतया प्रशासनिकदृष्ट्या च अत्यन्तं उपयुक्ता अस्ति।
सः अवदत् यत् बिहारविशेषसशस्त्रारक्षकः–१, गोरखावाहिनी राज्यारक्षकबलस्य एकः महत्त्वपूर्णः इकाई अस्ति, या संवेदनशीलक्षेत्रेषु अपराधनियन्त्रणं, नक्सलप्रभावितप्रदेशेषु सुरक्षाव्यवस्थां तथा संवैधानिकपदेषु आसीनव्यक्तीनां संरक्षणं च प्रमुखतया निर्वहति। सन् २००२ तमे वर्षे गठिता एषा वाहिनी अद्यावधि सीमितैः अस्थायिभिः संसाधनैः सह कार्यं कुर्वन्ती अस्ति। सः अवदत् यत् नवभूमौ स्थायीभवनानां, आवासनव्यवस्थायाः, पदयात्राक्षेत्रस्य तथा प्रशासनिकसंरचनानां निर्माणं न केवलं वाहिन्याः कार्यक्षमतां वर्धयिष्यति, अपि तु आरक्षक-कर्मिणां मनोबलं अपि सुदृढं करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani