Enter your Email Address to subscribe to our newsletters

पटना, 18 दिसम्बरमासः (हि.स.)। बिहारराज्यस्य उपमुख्यमन्त्री सम्राट्–चौधरीमहाभागः अवदत् यत् समस्तीपुरजनपदान्तर्गतस्य रोसड़ानगरस्य अग्निशामालय–भवननिर्माणाय स्वीकृतिः प्रदत्ता अस्ति। अस्यां योजनायां जी+3 संरचनायुक्तस्य भवनस्य, 125 केवीए जनरेटर–सेटस्य, वर्षाजलसंग्रहण–प्रणाल्याः, अग्निहाइड्रेन्ट–व्यवस्थायाः, भूमिगत–आरसीसी–टङ्कस्य तथा अन्यानाम् आवश्यकाधारभूत–संरचनानां निर्माणार्थं 6 कोटि 98 लक्ष 8 सहस्र 600 रूप्यकाणां व्ययः भविष्यति।
उपमुख्यमन्त्री गुरुवासरे अत्र अवदत् यत् रोसड़ा–अग्निशामालय–भवननिर्माण–योजनया क्षेत्रे अग्निशमन–व्यवस्था सुदृढा भविष्यति तथा आपत्कालीन–परिस्थितिषु शीघ्रं प्रभाविणी च कार्यवाही सुनिश्चिता भविष्यति। एतत् भवनम् आधुनिक–सुविधाभिः युक्तं भविष्यति, येन अग्निशमनकर्मिभ्यः उत्तमं कार्यवातावरणं लभ्यते।
उपमुख्यमन्त्री अवदत् यत् नीतिशकुमारस्य नेतृत्वे एनडीए–सर्वकारः बिहार–आरक्षकं अग्निशमन–सेवां च सशक्तीकरतुं निरन्तरं कार्यं करोति। गृहमन्त्रालयेन बिहारराज्ये यातायात–प्रशिक्षण–अकादेमी–निर्माण–योजनायै स्वीकृतिः प्रदत्ता, अधुना च समस्तीपुरजनपदान्तर्गतं रोसड़ानगरे द्वय–एकक–युक्तस्य अग्निशामालय–भवननिर्माणाय अनुमतिः दत्ता अस्ति। उपमुख्यमन्त्री सम्राट्–चौधरीमहाभागः अवदत् यत् अस्य परियोजनायाः सम्पन्नतया न केवलं रोसड़ानगरं, अपि तु समीपवर्ती क्षेत्राणि अपि लाभं प्राप्स्यन्ति, तथा अग्निशमन–सेवायाः क्षमतायाम् उल्लेखनीया वृद्धिः भविष्यति। सः अवदत्—राज्यसर्वकारः जनसुरक्षां सर्वोच्चां प्राथमिकतां मन्यते तथा आधारभूत–संरचनानां विकासाय दृढसंकल्पः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता