Enter your Email Address to subscribe to our newsletters

पटना, 18 दिसंबरमासः (हि.स.)। उपमुख्यमंत्री सम्राट्–चौधरी अवदत् यत् नवनियुक्तस्य प्रदेश–भाजपा–अध्यक्षस्य संजय–सरावगी इत्यस्य नेतृत्वे भारतीयजनतापक्षः बिहारप्रदेशे नूतनां उच्चताम् अवाप्स्यति।
उपमुख्यमंत्री चौधरी गुरुवासरे प्रदेश–भाजपा–मुख्यालये संजय–सरावगीम् अभिनन्दयन् एषां आशां व्यक्तवान् यत् सः कार्यकर्तॄणाम् अपेक्षाः पूरयिष्यति तथा सर्वेषां सहयोगेन संगठनं सुदृढं करिष्यति। उपमुख्यमंत्री चौधरी राज्ये मुख्यमन्त्री नीतीश–कुमारस्य नेतृत्वे एनडीए–सर्वकारस्य गठनात् केवलं अष्टाविंशतिदिनेभ्यः अन्तर्गतं प्रदेश–भाजपायै नूतन–नेतृत्वं दत्तमिति कारणेन प्रधानमन्त्री श्रीमान् नरेन्द्र–मोदी तथा गृहमन्त्री अमित–शाह इत्येतयोः प्रति आभारं व्यक्तवान्। सः अवदत्—पञ्चवारं निर्वाचितस्य अनुभवी–विधायकस्य श्री–सरावगी–महोदयस्य अनुभवः तथा तस्य कर्मठता यत्र पक्षेण सम्मानिता, तत्रैव तस्य सफलता सर्वेषां कार्यकर्तॄणां कृते एकः सन्देशः अपि अस्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani