Enter your Email Address to subscribe to our newsletters


पूर्व मेदिनीपुरम्, 18 दिसंबरमासः (हि.स.)।पर्यटनस्य वर्षान्तोत्सवस्य च दृष्ट्या पूर्वमेदिनीपुरजिलायाः प्रसिद्धे समुद्रतटे दीघायां प्रशासनं पूर्णरूपेण सतर्कं जातम्। वर्धमानजनसमूहं तथा सुरक्षाव्यवस्थां दृष्ट्वा बुधवासरे विलम्बितसायंकाले दीघा विकासपरिषदः कार्यालये एका महत्त्वपूर्णा प्रशासनिकोपवेशनऽऽयोजितम्। तत्र जिलाशासकः, कार्यवाहकः जिलापुलिसअधीक्षकः, दीघा विकासपरिषदोऽधिकारिणः तथा होटल् एसोसिएशनस्य प्रतिनिधयः उपस्थिताः आसन्।
प्रशासनिकाधिकारिणः अवदन् यत् २५ दिसम्बरदिनाङ्कात् दीघानगरी प्रकाशेन जगमगायिष्यति। होटल् व्यवसायिनः स्वस्व प्रतिष्ठानानि अलङ्कुर्वन्ति, तथा दीघा विकासपरिषदः परतया जगन्नाथमन्दिरसमीपस्थः मार्गः, ओल्ड दीघा, न्यू दीघा च विस्तीर्णः समुद्रतटप्रदेशः आकर्षकैः दीपप्रकाशैः अलङ्कर्तुं सज्जीकृतः अस्ति। एतेन सह पर्यावरणविभागात् अनुमतौ लब्धायां ओलम्पिकपद्धत्याः अनुरूपं भव्यं आतिशबाजीप्रदर्शनम् अपि आयोजयिष्यते।
उपवेशनानन्तरं जिलाधिकारी अवदत् यत् अस्मिन् वर्षे पूर्ववर्षेभ्यः अपेक्षया अधिकानां पर्यटकानां आगमनस्य सम्भावना अस्ति। अतः जनसमूहव्यवस्थापनं, यातायातनियन्त्रणं, वाहनस्थापनव्यवस्था तथा समुद्रतटस्य निरन्तरनिगराणीषु विशेषं बलं दीयते। सुरक्षार्थं अतिरिक्तपुलिसबलस्य नियुक्तिः करिष्यते तथा सी–फ्रण्ट् क्षेत्रे कठोरनिगराणी स्थाप्यते।
वर्षान्तनववर्षोत्सवयोः निमित्तं समुद्रतटे उत्सवपूर्णं वातावरणं दृश्यते। प्रशासनं होटल् स्वामिभ्यः सहयोगाय आह्वानं कृत्वा स्पष्टं कृतवान् यत् पर्यटकानां सुरक्षा, स्वच्छता तथा सुविधा सर्वोच्चप्राथमिकता भविष्यति। अधिकारिणः अवदन् यत् दीघायाम् आगच्छतां पर्यटकानां कृते सुरक्षितं स्मरणीयं च अनुभवं दातुं सर्वे आवश्यकाः उपायाः स्वीक्रियन्ते।
---------------
हिन्दुस्थान समाचार