वित्तमंत्रालयेन देशस्य 26 क्षेत्रीय ग्रामीणवित्तकोषाणां नूतन लोगो विमोचितम्
नवदिल्‍ली, 18 दिसंबरमासः (हि.स)। वित्तमन्त्रालयेन गुरुवासरे एकादशराज्येषु केन्द्रशासितप्रदेशेषु च कार्यरतानां षड्विंशतिः क्षेत्रीयग्रामीणबैंकानां (आरआरबी) कृते नवः लोगो अनावृतः कृतः। अनेन क्षेत्रीयग्रामीणबैंकानां राष्ट्रव्यापिस्तरे विशिष्टा, आधुनि
क्षेत्रीय ग्रामीण बैंकों का नया लोगो लॉन्चिंग का जारी फोटो


नवदिल्‍ली, 18 दिसंबरमासः (हि.स)।

वित्तमन्त्रालयेन गुरुवासरे एकादशराज्येषु केन्द्रशासितप्रदेशेषु च कार्यरतानां षड्विंशतिः क्षेत्रीयग्रामीणबैंकानां (आरआरबी) कृते नवः लोगो अनावृतः कृतः। अनेन क्षेत्रीयग्रामीणबैंकानां राष्ट्रव्यापिस्तरे विशिष्टा, आधुनिकाः, सुलभतया च परिचेयाः ब्राण्ड्-परिचयः भविष्यति।

वित्तमन्त्रालयस्य वित्तीयसेवाविभागेन “एकराज्यः एकः क्षेत्रीयग्रामीणबैंकः” (One State One RRB) इति सिद्धान्तस्य आधारेण एकादशराज्येषु केन्द्रशासितप्रदेशेषु च कार्यरताः षड्विंशतिः क्षेत्रीयग्रामीणबैंककोषाणाम् एकीकृताः, यत् १ मई २०२५ दिनाङ्कात् प्रभावीभूतम्। तदनन्तरं देशस्य सर्वेषां अष्टाविंशतिः क्षेत्रीयग्रामीणबैंककोषाणां कृते एकः समानः संयुक्तः च लोगो अनावृतः कृतः, येन एतेषां संस्थानां एकरूपा ब्राण्ड्-परिचयः स्थापितः भवति। एषः पादो ग्रामीणसमुदायसेवायां रतानां एतेषां बैंकानां परिचयस्य दृश्यतायाः च सुदृढीकरणाय महत्त्वपूर्णः मन्यते।

वित्तमन्त्रालयेन उक्तं यत् एषः सुधारः अधिकशक्तिशालिनां दक्षाणां च क्षेत्रीयग्रामीणबैंकानां निर्माणदिशायां निर्णायकः चरणः अस्ति। सम्प्रति अष्टाविंशतिः आरआरबी सप्तशतानाम् अधिकेषु जिलेषु द्वाविंशतिसहस्राधिकशाखानां विस्तृतजालेन राष्ट्रस्य सेवा कुर्वन्ति। ग्रामीणदूरवर्तिक्षेत्रेषु प्रगतिः विकासश्च इति विषयं प्रदर्शयन् एषः लोगो आरआरबी संस्थानानां मूल्यमानानां अधिकं सुदृढीकरणं करिष्यति।

लोगोमध्ये उपरिदिशं सूचयन् बाणः (प्रगतिसूचकः) अस्ति, यः ग्रामीणअर्थव्यवस्थायां भवतीं वृद्धिं, विकासं, निरन्तरउन्नतिं च द्योतयति। वित्तमन्त्रालयेन उक्तं यत् लोगोमध्ये स्थितः हस्तः (पोषणस्य प्रतीकः) ग्रामीणसमुदायान् प्रति संवेदनशीलतां, निरन्तरं सहयोगं, सहायताभावं च प्रकाशयति। लौः (ज्ञानोदयस्य प्रतीकः) आत्मीयतां, ज्ञानं, ग्रामीणजनसंख्यायाः सशक्तीकरणं च सूचयति।

आरआरबी-लोगो इत्यस्य वर्णानां चयनं अपि अत्यन्तं सूक्ष्मविचारेण कृतम् अस्ति। गभीरनीलवर्णः वित्तस्य विश्वासस्य च प्रतीकः अस्ति, हरितवर्णः तु जीवनस्य विकासस्य च सूचकः अस्ति। एते सर्वे तत्वानि संयुक्तरूपेण क्षेत्रीयग्रामीणबैंककोषाणां उद्देश्यान् प्रभावीरीत्या अभिव्यञ्जयन्ति।

---------------

हिन्दुस्थान समाचार