Enter your Email Address to subscribe to our newsletters


मस्कटम्, 18 दिसंबरमासः (हि.स)।
भारत–ओमानयोः मध्ये गुरुवासरे मस्कट्-नगरे व्यापकआर्थिकसहकारितासहमतौ (सीईपीए) हस्ताक्षराणि कृतानि। अनेन सहमततया वस्त्राणि, चर्मोद्योगः, पादत्राणानि, रत्नाभूषणानि, अभियान्त्रिकसामग्री, प्लास्टिक्, उपस्कराः, फर्नीचर्, कृषिउत्पादाः, औषधयः, चिकित्सायन्त्राणि तथा मोटरयानानि इत्यादिषु प्रमुखेषु निर्यातक्षेत्रेषु पूर्णशुल्कनिवृत्तेः लाभः भविष्यति। अनेन भारतस्य विनिर्माणक्षमता तथा निर्यातप्रतिस्पर्धात्मकता च सुदृढा भविष्यति।
अस्मिन् सहमते भारतस्य केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः तथा ओमानदेशस्य वाणिज्य-उद्योग-निवेशप्रोत्साहनमन्त्री कैस बिन् मोहम्मद अल् यूसुफः हस्ताक्षरं कृतवन्तौ। एषः सम्झौतिः श्रमप्रधानक्षेत्राणां कृते अत्यन्तं लाभप्रदः भविष्यति, येन रोजगारसृजनं वर्धिष्यते, लघु-मध्यमोद्यमानां (एमएसएमई), शिल्पिनां तथा महिलानेतृत्वयुक्तानां उद्यमानां च सशक्तीकरणं भविष्यति।
पीयूषगोयलेन उक्तं यत् अस्मिन् सम्झौते भारतस्य कृषकाणां लघुव्यवसायिनां च हितरक्षणार्थं संवेदनशीलक्षेत्राणां संरक्षणं कृतम् अस्ति। एषः सहमतिः सेवाव्यापारस्य कृते व्यापकं दूरदर्शी च आधारं प्रदास्यति, यस्मिन् सूचना-प्रौद्योगिकी, व्यावसायिक-व्यावसायिकसेवाः, अनुसन्धान-विकासः, शिक्षा, स्वास्थ्य, श्रव्य-दृश्यसेवाः च अन्तर्भवन्ति।
अस्य सम्झौतेस्य विशेषा प्रमुखा च विशेषता अस्ति यत् संविदाधारितसेवाप्रदातॄणां कृते निवासानुमतिः ९० दिनात् द्विवर्षपर्यन्तं विस्तारिताऽस्ति, यस्य अग्रे द्विवर्षविस्तारस्य अपि सम्भावना अस्ति। वाणिज्यमन्त्रिणा उक्तं यत् वर्धितगमनागमनप्रावधानैः लेखाङ्कनं, कराधानं, वास्तुकला, चिकित्सा तथा सम्बद्धसेवाक्षेत्रेषु भारतीयकुशलपेशेवराणां कृते नूतनाः अवसराः उद्घाटिताः भविष्यन्ति।
प्रमुखेषु सेवाक्षेत्रेषु भारतीय संस्थाभ्यः शतप्रतिशतप्रत्यक्षविदेशीनिवेशस्य (एफडीआई) अनुमतिः भारतीयप्रतिभायाः कृते उच्चमूल्ययुक्तान् अवसरान् स्रक्ष्यति।
पीयूषगोयलेन अपि उक्तं यत् एषः संतुलितः महत्त्वाकाङ्क्षी च सम्झौतिः अस्ति, यः द्विपक्षीयव्यापारं प्रवर्धयिष्यति, आपूर्तिशृङ्खलाः सुदृढीकरिष्यति, जीविकाः स्रक्ष्यति तथा समावेशी-सतत-विकासस्य भारतस्य दृष्टिकोणानुसारं दीर्घकालिकां आर्थिकसहकारिताम् अधिकं गभीरां करिष्यति।
---------------
हिन्दुस्थान समाचार