कर्नाटकराज्ये त्रिवर्षेषु ‘पाकिस्तान् जिंदाबाद्’ इति घोषवाक्यप्रयोगस्य 12 प्रकरणानि पञ्जीकृतानि - गृहमन्त्री परमेश्वरः
बेलगाम्, 18 दिसम्बरमासः (हि.स.)। कर्नाटकराज्यस्य गृहमन्त्री डॉ. जी. परमेश्वरः सदसि अवदत् यत् राज्ये गतत्रिषु वर्षेषु ‘पाकिस्तान् जिंदाबाद्’ इति घोषवाक्यस्य उच्चारणसम्बद्धानि 12 प्रकरणानि पञ्जीकृतानि सन्ति। गुरुवासरे अत्र सुवर्णसौधायां विधानपरिषदः
Parmeshwar


बेलगाम्, 18 दिसम्बरमासः (हि.स.)। कर्नाटकराज्यस्य गृहमन्त्री डॉ. जी. परमेश्वरः सदसि अवदत् यत् राज्ये गतत्रिषु वर्षेषु ‘पाकिस्तान् जिंदाबाद्’ इति घोषवाक्यस्य उच्चारणसम्बद्धानि 12 प्रकरणानि पञ्जीकृतानि सन्ति।

गुरुवासरे अत्र सुवर्णसौधायां विधानपरिषदः सत्रस्य प्रश्नोत्तरकालखण्डे मन्त्री परमेश्वरः प्रश्नानाम् उत्तराणि दत्तवान् । भाजपायाः सदस्यस्य सी. टी. रवि–महाभागस्य प्रश्नस्य उत्तरं दत्त्वा गृहमन्त्री परमेश्वरः अवदत् यत् 2023 तः 2025 पर्यन्तम् अवधौ जनसामान्यात् प्राप्तानां स्वयंस्फूर्त–शिकायतानां तथा अन्य–शिकायतानां आधारेण ‘पाकिस्तान् जिंदाबाद्’ इति घोषवाक्यप्रयोगस्य 12 प्रकरणानि पञ्जीकृतानि आसन्।

सः सदनम् अवगतवान् यत् एतेषु 12 प्रकरणेषु 5 प्रकरणेषु न्यायालये आरोपपत्राणि समर्पितानि सन्ति। 2 प्रकरणयोः ‘बी’ प्रतिवेदनं, एकस्मिन् 1 प्रकरणे ‘सी’ प्रतिवेदनं च समर्पितम् अस्ति। अतिरिच्य त्रीणि 3 प्रकरणानि अद्यापि अनुसन्धानाधीनानि सन्ति, अन्यस्मिन् 1 प्रकरणे च एफ्–एस्–एल् प्रतिवेदनं प्रलम्बितम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता