Enter your Email Address to subscribe to our newsletters

धर्मशाला, 18 दिसंबरमासः (हि.स.)।पूर्वोद्योगमन्त्री तथा जसवां–प्रागपुरविधानसभा–क्षेत्रस्य विधायकः बिक्रम ठाकुरः “कांगड़ा वैली कार्निवल” इत्यस्य नाम्ना व्यापारिकसंस्थाभ्यः आर्थिकसहयोगसंग्रहस्य विषयं प्रति काङ्ग्रेस् सर्वकारं तीव्रतया आक्रान्तवान्। सः अवदत् यत् नागरिकआपूर्तिविभागस्य कांगड़ा–जिलानियन्त्रकस्य पत्रस्य सामाजिकमाध्यमेषु प्रसारः एतस्य स्पष्टं प्रमाणं यत् काङ्ग्रेस् सरकार सांस्कृतिककार्यक्रमाणां आडम्बरेण उगाहीं शासकीयनीतिरूपेण स्वीकृतवती अस्ति। बिक्रम ठाकुरः अस्य प्रकरणस्य निष्पक्षपरिशीलने याचनांकृत्वा उक्तवान् यत् उत्तरदायी अधिकारिणां विरुद्धं शीघ्रं कठोरकार्यवाही भवितव्या।
गुरुवासरे प्रकाशिते प्रेसविज्ञप्तौ बिक्रम ठाकुरः अवदत् यत् यदि सरकार वास्तवमेव कांगड़ा वैली कार्निवलादिषु आयोजनेषु गम्भीरा अस्ति, तर्हि तस्य कृते बजटे स्पष्टः प्रावधानः किमर्थं न कृतः। शासकीयकार्यक्रमाणां कृते व्यापारिभ्यः दुकानदारेभ्यश्च धनयाचनं सर्वकारस्य दूषितां नीयतिं तथा वित्तीयदुरव्यवस्थां प्रदर्शयति। एतत् सहयोगः न, अपि तु भयदबावयोः वातावरणे कृताः जबरनवसूली एव।
सः आरोपं कृतवान् यत् काङ्ग्रेस् सरकारं प्रदेशं “चन्दाराज्य” इति दिशि नयति, यत्र प्रत्येकं शासकीयआयोजनं जनतायाः कोषे आघातं कृत्वा क्रियते। पूर्वं कररूपेण, अधुना कार्निवलनाम्ना वसूली—एषा काङ्ग्रेस् दलस्य जनविरोधिनी चिन्ताधारा स्पष्टं करोति। विधायकः अवदत् यत् व्यापारिवर्गे आर्थिकभारारोपणं सर्वथा अनुचितं निन्दनीयं च अस्ति।
पूर्वमन्त्री अवदत् यत् एकस्मिन् पक्षे काङ्ग्रेस सर्वकारः आर्थिकसंकटस्य विलापं करोति, अपरस्मिन् पक्षे तु भव्यकार्यक्रमाणां योजनां कृत्वा जनतायाः धनं हर्तुं प्रवृत्ता अस्ति। त्रिवर्षीयशासने विकासकार्यं स्थगितं जातम्, रोजगारावसराः लुप्ताः सन्ति, अधुना व्यापारिवर्गोऽपि क्लेशयितुं आरब्धः।
अन्ते सः चेतितवान् यत् यदि काङ्ग्रेस् सरकार एषां उगाहीनीतिं न परित्यजति, तर्हि भारतीयजनतापार्टी व्यापारिणां सामान्यजनानां च हितसंरक्षणाय दृढतया मार्गेषु अवतरिष्यति।
हिन्दुस्थान समाचार