भारतस्य अथ च ओमानस्य मध्ये मुक्त व्यापार सहमतेः मुख्यवार्ताः
मस्कटम्, 18 दिसंबरमासः (हि.स)। भारत–ओमानयोः मध्ये गुरुवासरे मस्कट्-नगरे मुक्तव्यापारसहमतस्य हस्ताक्षराणि कृतानि। एषा सहमतिः आधिकारिकरूपेण व्यापकआर्थिकसहकारसहमतिः (सीईपीए) इति कथ्यते। अस्य सम्झौतेस्य उद्देश्यं उभयदेशयोः द्विपक्षीयव्यापारे, निवेशे
समझौते पर गोयल और ओमान के वाणिज्य, उद्योग और निवेश प्रोत्साहन मंत्री ने किए हस्‍ताक्षर


मस्कटम्, 18 दिसंबरमासः (हि.स)।

भारत–ओमानयोः मध्ये गुरुवासरे मस्कट्-नगरे मुक्तव्यापारसहमतस्य हस्ताक्षराणि कृतानि। एषा सहमतिः आधिकारिकरूपेण व्यापकआर्थिकसहकारसहमतिः (सीईपीए) इति कथ्यते। अस्य सम्झौतेस्य उद्देश्यं उभयदेशयोः द्विपक्षीयव्यापारे, निवेशे तथा सेवाक्षेत्रे सहयोगवृद्धिः अस्ति।

वाणिज्य-उद्योगमन्त्रालयेन प्रदत्तसूचनानुसारं, प्रधानमन्त्री नरेन्द्रमोदी तथा ओमानदेशस्य सुल्तानः हैथम बिन् तारिक इत्येतयोः उपस्थितौ भारतस्य केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः तथा ओमानदेशस्य वाणिज्य-उद्योग-निवेशप्रोत्साहनमन्त्री कैस बिन् मोहम्मद अल् यूसुफः एतस्मिन् सहमतौ हस्ताक्षरं कृतवन्तौ।

सहमतेः प्रमुखबिन्दवः

वस्तूनि (Goods)

अस्य सहमतौ अन्तर्गतं ओमानदेशः स्वस्य कुलशुल्कश्रेणीनां ९८.०८ प्रतिशतभागे शून्यशुल्कप्रवेशं प्रदाति। एतेन ओमानं प्रति भारतस्य ९९.३८ प्रतिशतनिर्यातः आच्छाद्यते। अत्र प्रथमवारं भारतस्य पारम्परिकौषधानि अपि समाविष्टानि सन्ति, येन खाडीदेशेषु आयुष्-उत्पादानां विपणनप्रवेशः वर्धिष्यते।

अस्य सहमत्या रत्नाभूषणानि, वस्त्राणि, चर्मोद्योगः, पादत्राणानि, क्रीडासामग्री, प्लास्टिक्, उपस्कराणि, फर्नीचर्, कृषिउत्पादाः, अभियान्त्रिकउत्पादाः, औषधानि, चिकित्सायन्त्राणि तथा मोटरयानानि इत्यादिषु श्रमप्रधानक्षेत्रेषु पूर्णशुल्कनिवृत्तेः लाभः भविष्यति। ९७.९६ प्रतिशतशुल्कश्रेणीषु तात्कालिकशुल्कनिवृत्तिः अपि प्रस्ताविता अस्ति।

व्यापकआर्थिकसहमतेः अन्तर्गतं भारतः स्वस्य कुलशुल्कश्रेणीनां (१२,५५६) मध्ये ७७.७९ प्रतिशतश्रेणीषु शुल्क-उदारीकरणं प्रदास्यति, यत्र मूल्याधारितरूपेण ओमानदेशात् भारतं प्रति आयातः ९४.८१ प्रतिशतपर्यन्तं आच्छाद्यते। भारताय संवेदनशीलानां, ओमानदेशस्य निर्यातरुचियुक्तानां च उत्पादानां विषये बहुषु प्रसङ्गेषु शुल्कदर-कोटा (टीआरक्यू) आधारित-उदारीकरणं प्रस्तावितम्।

संवेदनशीलउत्पादेषु—यथा दुग्धपदार्थाः, चायः, कॉफी, रबर्-तम्बाकूउत्पादाः, सुवर्ण-रजतपदार्थाः, आभूषणानि, पादत्राणानि, क्रीडासामग्री तथा केचन आधारधातुकबाडाः—कस्यापि शुल्करियायती न दत्ता। यूएसएफडीए, ईएमए, यूकेएमएचआरए इत्यादिभिः स्वीकृतानां औषधिपदार्थानां विपणनानुमतिप्रक्रिया शीघ्रीकृता भविष्यति।

सेवाक्षेत्रम् (Services)

ओमानदेशस्य वैश्विकसेवाआयातः १२.५२ अरब् अमेरिकी-डॉलर् अस्ति, यस्मिन् भारतस्य अंशः केवलं ५.३१ प्रतिशतः एव। एते तथ्याङ्काः भारतीयसेवाप्रदातॄणां कृते विशालाम् अप्रयुक्तक्षमतां दर्शयन्ति। ओमानदेशः सङ्गणकसेवाः, व्यापार-पेशेवरसेवाः, श्रव्य-दृश्यसेवाः, अनुसन्धान-विकासः, शिक्षा-स्वास्थ्यसेवाः इत्यादिषु क्षेत्रेषु महत्त्वपूर्णाः प्रतिबद्धताः व्यक्तवान्।

प्रथमवारं ओमानदेशेन कुशलपेशेवराणां गमनागमनविषये (मोड्-४) व्यापकाः प्रतिबद्धताः प्रदत्ताः। कम्पनी-अन्तर्गत-स्थानान्तरणकर्मचारिणां सीमा २० प्रतिशततः ५० प्रतिशतपर्यन्तं वर्धिता। संविदाधारितसेवाप्रदातॄणां कृते निवास-अवधिः ९० दिनात् द्विवर्षपर्यन्तं विस्तारिताऽस्ति, यां पुनः द्विवर्षाणि पर्यन्तं वर्धयितुं शक्यते।

लेखाङ्कनं, कराधानं, वास्तुकला, चिकित्सा इत्यादिषु प्रमुखसेवाक्षेत्रेषु कुशलपेशेवराणां कृते अधिक-उदारप्रवेश-निवासशर्ताः प्रदत्ताः। सीईपीए अन्तर्गतं ओमानदेशस्य प्रमुखसेवाक्षेत्रेषु भारतीयकम्पनीभ्यः १०० प्रतिशतप्रत्यक्षविदेशीनिवेशस्य (एफडीआई) व्यवस्था अस्ति। उभयदेशौ सहमतौ यत् ओमानदेशस्य अंशदायी-सामाजिकसुरक्षाप्रणाली लागूभवितव्ये भविष्ये सामाजिकसुरक्षासमन्वयविषये चर्चा करिष्यतः।

अन्याः महत्त्वपूर्णाः तथ्याः

भारत–ओमानव्यापकआर्थिकसहकारितासहमतिः एकः ऐतिहासिकः मीलस्तम्भः अस्ति। सन् २००६ तमे वर्षे अमेरिकया सह कृतसम्झौतानन्तरं, ओमानदेशेन कस्यचित् अन्यदेशेन सह हस्ताक्षरितः एषः प्रथमः द्विपक्षीयव्यापारसम्झौतिः अस्ति।

ओमानः खाडीप्रदेशे भारतस्य महत्त्वपूर्णः रणनीतिकसाझीदारः अस्ति तथा पश्चिमएशिया, पूर्वअफ्रीकायाः विस्तीर्णक्षेत्रेषु भारतीयवस्तूनां सेवाः च कृते प्रमुखः प्रवेशद्वारः। ओमानदेशे प्रायः सप्तलक्षं भारतीयाः निवसन्ति, येषु केचन व्यापारीपरिवाराः द्विशत-त्रिशतवर्षेभ्यः तत्रैव निवसन्ति।

ओमानदेशे विविधक्षेत्रेषु कार्यरताः षट्सहस्राधिकाः भारतीयप्रतिष्ठानाः सन्ति। भारतं प्रति ओमानदेशात् प्रतिवर्षं प्रायः द्वयम् अरब् अमेरिकी-डॉलर् मूल्यं प्राप्यते। ब्रिटेननन्तरं गतषड्मासेषु भारतद्वारा हस्ताक्षरितः एषः द्वितीयः प्रमुखः व्यापारसहमतिः अस्ति।

---------------

हिन्दुस्थान समाचार