प्रधानमन्त्री मूर्तिकार-रामसुतारस्य निधनं प्रति शोकं व्यक्तवान्।
नवदेहली, १८ दिसम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः गुरुवासरे प्रख्यातस्य मूर्तिकारस्य रामसुतारस्य निधनं प्रति शोकं व्यक्तवान्। सः रामसुतारम् असाधारणं कलाकारं वर्णयित्वा अवदत् यत् तस्य कलात्मकनिपुणतया देशाय “स्टैच्यू ऑफ यूनिटी” सहितं अनेक
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदेहली, १८ दिसम्बरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदीः गुरुवासरे प्रख्यातस्य मूर्तिकारस्य रामसुतारस्य निधनं प्रति शोकं व्यक्तवान्। सः रामसुतारम् असाधारणं कलाकारं वर्णयित्वा अवदत् यत् तस्य कलात्मकनिपुणतया देशाय “स्टैच्यू ऑफ यूनिटी” सहितं अनेकानि ऐतिहासिकानि स्मारकानि प्रदत्तानि सन्ति।

प्रधानमन्त्रीः ‘एक्स’ इति माध्यमे प्रकाशिते सन्देशे अवदत् यत् रामसुतारस्य कृतयः भारतस्य इतिहासस्य, संस्कृतेः तथा सामूहिकभावनायाः सशक्तं अभिव्यक्तिरूपं सन्ति, याः सदा प्रशंसिताः भविष्यन्ति। तेन आगामिपीढीनां कृते राष्ट्रियगौरवं अमरं कृतम्, तस्य रचनाः कलाकारान् साधारणनागरिकांश्च समानरूपेण निरन्तरं प्रेरयिष्यन्ति।

मोदीः अवदत् यत् रामसुतारस्य निधनात् तस्मै गहनं दुःखं जातम्। सः एकः असाधारणः मूर्तिकारः आसीत्, यस्य कलात्मकता भारताय केवडियास्थितं “स्टैच्यू ऑफ यूनिटी” सहितं अनेकानि प्रतिष्ठितानि स्मारकानि प्रदत्तवती। तस्य कृतयः भारतस्य इतिहासस्य, संस्कृतेः तथा सामूहिकभावनायाः सशक्तं अभिव्यक्तिरूपेण सदा प्रशंसिताः भविष्यन्ति। तेन आगामिपीढीनां कृते राष्ट्रियामरं कृतम्। रामसुतारस्य योगदानं कलाजगति सदैव स्मरणीयं भविष्यति। प्रधानमन्त्री दिवंगतस्य कलाकारस्य कुटुम्बस्य, प्रशंसकानां तथा तस्य जीवनकार्याभ्यां प्रभावितानां सर्वेषां प्रति संवेदनाः व्यक्तवान्।

“स्टैच्यू ऑफ यूनिटी” इत्यस्य जनकत्वेन प्रसिद्धः प्रतिष्ठितः मूर्तिकारः रामसुतारः १९ फेब्रुवरी १९२५ तमे वर्षे महाराष्ट्रराज्यस्य धुलेजनपदस्य गोंडूरग्रामे जातः। सः मुम्बईस्थितात् जे.जे. स्कूल् ऑफ आर्ट् ऐण्ड् आर्किटेक्चर इत्यस्मात् स्वर्णपदकं प्राप्तवान्। नवदेहली लस्थिते संसद्परिसरे स्थापिते ध्यानमुद्रायां महात्मागान्धेः प्रतिमा तथा अश्वारूढस्य छत्रपतिशिवाजिमहाराजस्य प्रतिमा तस्य श्रेष्ठासु कृतिषु गणिते स्तः।

रामसुतारः १९९९ तमे वर्षे पद्मश्रीसम्मानेन तथा २०१६ तमे वर्षे पद्मभूषणसम्मानेन अलंकृतः आसीत्। अद्यतनकाले सः महाराष्ट्रराज्यस्य सर्वोच्चेन सम्मानेन “महाराष्ट्रभूषण” इति अलंकृतः। गुजरातराज्यस्य केवडियाक्षेत्रे नर्मदानद्याः समीपे स्थापितं “स्टैच्यू ऑफ यूनिटी” प्रथमोपप्रधानमन्त्रिणे तथा गृहमन्त्रिणे सरदारवल्लभभाईपटेलाय समर्पितम् अस्ति। एषा विश्वस्य उच्चतमा प्रतिमा अस्ति। अस्य उच्चता १८२ मीटर् परिमिता अस्ति। एषः भारतस्य एकतायाः प्रतीकं भवति।

हिन्दुस्थान समाचार / Dheeraj Maithani