Enter your Email Address to subscribe to our newsletters

नवदेहली, १८ दिसम्बरमासः (हि.स.)। ओमानदेशस्य सुल्तानः हैथमबिनतारिकः भारत–ओमानसंबन्धेषु प्रधानमन्त्रिणः नरेन्द्रमोदी असाधारणयोगदानं दूरदर्शीनेतृत्वं च दृष्ट्वा ‘ऑर्डर ऑफ़ ओमान’ पुरस्कारेण सम्मानितवन्तः। प्रधानमन्त्रिणः एतत् सम्मानं उभयोः राष्ट्रयोः पुरातनमित्रतायै समर्पितम्। सुल्तानः कबूसबिनसईद् एतत् पुरस्कारं १९७० तमे वर्षे स्थापयितवान्। ऑर्डर-ऑफ़-ओमान केवलं किञ्चित् वैश्विकनेतृभ्यः प्रदत्तः, येषां योगदानं सार्वजनिकजीवने तथा द्विपक्षीयसंबन्धेषु महत्वपूर्णम् अस्ति।
विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवाल् एक्स् माध्यमे अस्य पुरस्कारस्य भारत–ओमानयोः स्थायिनि-मित्रतायाः पुष्टि इति उक्तवान्। ते अवदन् यत् प्रधानमन्त्रिणः एतत् सम्मानं भारत–ओमान पुरातनमित्रतायै समर्पितम्। तेन एषः सम्मानः भारतस्य १.४ अरब जनानां तथा ओमान-जनानां मध्ये स्नेहोत्साहं च सौहार्दं च दर्शयति इति विवक्षितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता