Enter your Email Address to subscribe to our newsletters

नवदेहली, 18 दिसंबरमासः (हि.स.)। प्रधानमन्त्री श्रीमान् नरेन्द्र–मोदी गुरुवासरे मस्कट्-नगरे ओमानदेशं सर्वऋतु–मित्रम् इति निर्दिश्य अवदत् यत् भारत–ओमानयोः मध्ये व्यापक–आर्थिक–सहयोग–सन्धिः (सीईपीए) एकविंशतितमे शतके द्वयोः देशयोः सहयोगाय नूतनं विश्वासं नूतनां ऊर्जां च प्रदास्यति।
प्रधानमन्त्री मस्कट्-नगरे आयोजितं भारत–ओमान–व्यापार–शिखर–सम्मेलनम् अद्य सम्बोधितवान्। सः आशां व्यक्तवान् यत् एषः मञ्चः द्वयोः देशयोः व्यापारिक–सम्बन्धेषु नूतनायाः ऊर्जायाः सञ्चारं करिष्यति तथा विकास–अवसराणां द्वाराणि उद्घाटयिष्यति। अस्मिन्नेव अवसरें सः व्यापारिक–नेतृभिः सह संवादं कृत्वा आर्थिक–सहयोगस्य अवसरानां विषये विचारविनिमयं कृतवान्।
प्रधानमन्त्रीणा सीईपीए विषये उक्तम्—
“साधारणतया उच्यते यत् समुद्रस्य द्वौ तीरौ परस्परं दूरस्थौ स्तः। किन्तु माण्डवी–मस्कटयोः मध्ये स्थितः अरब–सागरः अधुना एकः दृढः सेतुः अभवत्—यः सेतुः अस्माकं सम्बन्धान् सुदृढीकृतवान्, अस्माकं सांस्कृतिक–आर्थिक–संबन्धान् च सशक्तीकृतवान्। अद्य वयं विश्वासेन वक्तुं शक्नुमः—समुद्रस्य तरङ्गाः परिवर्तन्ते, ऋतवः परिवर्तन्ते; किन्तु भारत–ओमानयोः मैत्री सर्वासु ऋतुषु अधिकाधिकं सुदृढा भवति, प्रत्येकं तरङ्गया सह नूतनान् शिखरान् स्पृशति।”
सः अवदत् यत् भारतस्य विकास–यात्रायां ओमानदेशस्य अपाराः सम्भावनाः सन्ति। व्यापक–आर्थिक–सहाभागिता–सन्धिः (सीईपीए) अस्मान् एकविंशतितमे शतके नूतनेन विश्वासेन नूतनया ऊर्जया च परिपूर्णान् करिष्यति। एषः अस्माकं साझा–भविष्यस्य रूपरेखा अस्ति। एतेन व्यापारः वर्धिष्यते, निवेशेषु नूतनः आत्मविश्वासः जागरयिष्यते, सर्वेषु क्षेत्रेषु अवसराणां नूतनानि द्वाराणि उद्घाटयिष्यन्ते।
प्रधानमन्त्री अवदत् यत् गताः एकादश वर्षाणि अन्तर्गतः भारतः केवलं नीतयः न परिवर्तितवान्, अपि तु स्वस्य अर्थव्यवस्थायाः स्वरूपमेव परिवर्तितवान्। वस्तु–सेवा–करः (जीएसटी) समग्रं भारतं एकीकृतं परस्परं सम्बद्धं च विपणिम् अकरोत्। दिवाला–दिवालियापन–संहिता वित्तीय–अनुशासनं आनयत्, पारदर्शितां वर्धितवती, निवेशकानां विश्वासं च दृढीकृतवती। देशे विद्यमानाः बहवः श्रम–संहिताः संक्षिप्य केवलं चतसृषु संहितासु समाहिताः—एते भारतीय–इतिहासस्य महान् श्रम–सुधारेषु अन्यतमाः सन्ति। भारत–ओमानयोः राजनयिक–सम्बन्धानां ७० वर्षपूर्त्यां प्रधानमन्त्री अवदत्—एषः केवलं सप्ततिवर्षीयः उत्सवः न, अपि तु एकः मीलस्तम्भः अस्ति, यत्र वयं स्वां शताब्दीसु विस्तीर्णां विरासतां समृद्ध–भविष्यस्य दिशि अग्रसरयामः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता