भारत सर्वकार प्रवासिनां कल्याणाय प्रतिबद्धः प्रधानमंत्री
मस्कटम् (ओमानदेशम्), १८ दिसम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे उक्तवान् यत् विविधता भारतीयसंस्कृतेः मूलाधारः अस्ति। सः अवदत् यत् एषः एव सः मूल्यः यः भारतीयान् कस्मिंश्चित् अपि समाजे सहजतया समावेशितुं समर्थान् करोति। ओमानदेशे भार
प्रवासी भारतीय समुदाय को ओमान में संबोधित करते प्रधानमंत्री


मस्कटम् (ओमानदेशम्), १८ दिसम्बरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे उक्तवान् यत् विविधता भारतीयसंस्कृतेः मूलाधारः अस्ति। सः अवदत् यत् एषः एव सः मूल्यः यः भारतीयान् कस्मिंश्चित् अपि समाजे सहजतया समावेशितुं समर्थान् करोति। ओमानदेशे भारतीयसमुदायस्य प्रति प्रदर्शितं सम्मानं उल्लेखयन् प्रधानमन्त्रीः एतत् प्रतिपादितवान् यत् सह-अस्तित्वं तथा सहयोगः भारतीयप्रवासीसमुदायस्य चिरपरिचिता परिचयः भवतः।

प्रधानमन्त्री प्रवासीभारतीयानां कल्याणे भारतस्य गहनं प्रतिबद्धतां व्यक्तीकृत्य अवदत्— यदा कदा च यत्र कुत्रापि अस्माकं जनानां साहाय्यस्य आवश्यकता भवति, तदा सर्वकारः तेषां हस्तं ग्रहीतुं सदा तत्परा अस्ति।

प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे अपि अवदत् यत् भारतस्य ओमानदेशेन सह माण्डवीतः आरभ्य मस्कट्पर्यन्तं शताब्द्यः प्राचीनाः सम्बन्धाः सन्ति, ये प्रवासीसमुदायस्य कठोरपरिश्रमेन ऐक्यभावेन च पोष्यन्ते। समुदायस्य कल्याणाय सुल्तान् हैथम-बिन्-तारिकस्य समर्थनाय सः तस्मै कृतज्ञतां अपि व्यक्तवान्।

अद्य प्रधानमन्त्रीः मस्कट् (ओमानदेशे) भारतीयसमुदायस्य विशालां सभां सम्बोधितवान्। श्रोतृषु विविधेषु भारतीयविद्यालयेषु अध्ययमानाः सप्तशताधिकाः छात्राः अपि समाविष्टाः आसन्। ओमानदेशे भारतीयविद्यालयानां कृते अयं वर्षः विशेषमहत्त्वपूर्णः अस्ति, यतः ते देशे स्वस्य स्थापनेः पञ्चाशत्वर्षपूर्तिं उत्सवेन आचरन्ति।

प्रधानमन्त्रीः अस्यां दिशि बलं दत्तवान् यत् भारतः केवलं विपणिः (बाजारः) नास्ति, अपि तु वस्तुभ्यः सेवाभ्यः आरभ्य अङ्कीयसमाधानेषु पर्यन्तं विश्वस्य कृते आदर्शरूपेण स्थितः अस्ति। सः पुनः प्रतिपादितवान् यत् भारत-ओमानयोः सहभागिता कृत्रिमबुद्धिमत्ता (एआई) सहकार्येण, अङ्कीयशिक्षया, नवाचारसहभागितया तथा उद्यमशीलता-आदानप्रदानेन भविष्याय सज्जा भवति। सः युवान् महत्स्वप्नान् द्रष्टुं, गहनं ज्ञानं अर्जयितुं, साहसिकं नवाचारं कर्तुं च आहूतवान्, येन ते मानवतायै अर्थपूर्णं योगदानं दातुं शक्नुवन्ति।

प्रधानमन्त्रीः भारतस्य परिवर्तनकारीं वृद्धिं, परिवर्तनस्य वेगं व्यापकतां च उल्लिख्य अवदत् यत् गतत्रैमासिके अष्टप्रतिशताधिकया वृद्ध्या अर्थव्यवस्थायाः दृढता स्पष्टतया प्रकटिता अस्ति। सः गत-एकादशवर्षेषु सर्वकारस्य उपलब्धीनां उल्लेखं कृत्वा अवदत् यत् देशे अवसंरचनाविकासे, विनिर्माणे, स्वास्थ्यसेवायां, हरितविकासे तथा महिलासशक्तीकरणे परिवर्तनकारीः परिवर्तनाः अभवन्।

सः अवदत् यत् भारतः एकविंशतिशतकाय स्वं सज्जं कर्तुं विश्वस्तरीयं नवाचारं, नवोद्यमसंस्कृतिं तथा अङ्कीयसार्वजनिकावसंरचना-पारिस्थितिकीतन्त्रं विकासयति। भारतस्य यूपीआई प्रणाली या वैश्विकस्तरे समस्तेषु अङ्कीयभुगतानेषु प्रायः पञ्चाशत्प्रतिशतं अंशं धारयति— गौरवस्य तथा उपलब्धेः विषयः अस्ति।

सः अन्तरिक्षक्षेत्रे भारतस्य नवीनासु उत्कृष्टासु उपलब्धिषु प्रकाशं पातितवान्, यासु चन्द्रमायां अवतरणं तथा गगनयानमानवान्तरीक्षाभियानस्य योजना समाविष्टा अस्ति। सः अपि अवदत् यत् अन्तरिक्षः भारत–ओमानयोः सहकार्यस्य महत्त्वपूर्णः भागः अस्ति तथा छात्रान् इस्रो-संस्थायाः ‘युविका’ नाम्नि युवकार्यक्रमे भागं ग्रहीतुं आमन्त्रितवान्।

हिन्दुस्थान समाचार / Dheeraj Maithani