Enter your Email Address to subscribe to our newsletters

नोएडा, 18 दिसंबरमासः (हि.स.)।
विश्वविख्यातः मूर्तिकारः पद्मश्री–पद्मभूषणसम्मानितः रामसुतारः (वनजी) बुधवासरे रात्रौ विलम्बितकाले दिवङ्गतः अभवत्। तस्य निधनसमाचारात् कला–संस्कृतिजगति महती शोकलहरः व्याप्ता। सः सेक्टर् १९ स्थिते स्वनिवासे अन्तिमश्वासं त्यक्तवान्। अद्यतनकाले एव महाराष्ट्रराज्यसरकारेण सः “महाराष्ट्रभूषण” सम्मानेन सम्मानितः आसीत्, यस्य निमित्तं मुख्यमंत्रीसहितं सम्पूर्णं महाराष्ट्रशासनं नोएडास्थितं तस्य गृहम् आगतम् आसीत्। तेन देशविदेशेषु अनेकाः पुरस्काराः लब्धाः।
रामसुतारेण विश्वप्रसिद्धा १८२ मीटर ऊर्ध्वा “स्टैच्यू ऑफ् यूनिटी” निर्माय इतिहासः रचितः। तस्य निधनसूचनया देशविदेशेषु नेतारः, मूर्तिकाराः, कलाकाराः, समाजसेवकाः च शोकं प्रकटयन्ति। तस्य अन्त्येष्टिः अद्य नोएडानगरस्य सेक्टर् ९४ स्थिते अन्तिमनिवासे भविष्यति। प्रातःकालादेव जनसमूहः तस्य गृहे समागन्तुं आरब्धः। अन्त्यसंस्कारकाले सम्भावितां भीडं दृष्ट्वा जिला–प्रशासनं तथा पुलिस् विभागः अपि सुरक्षा–व्यवस्थां सुनिश्चितां कृतवन्तौ। सामाजिकमाध्यमेष्वपि जनाः शोकसंवेदना प्रकटयन्ति।
रामसुतारस्य पुत्रः अनिलसुतारः अवदत् यत् तस्य पिता कतिपयदिनानि अस्वस्थः आसीत्। शतवर्षीयः पद्मभूषणसम्मानितः सः नोएडास्थिते स्वगृहे एव देहत्यागं कृतवान्। तस्य निधनात् सम्पूर्णे कलाजगति शोकलहरः प्रसृता।
रामसुतारस्य जन्मः १९ फेब्रुवरी १९२५ तमे वर्षे महाराष्ट्रराज्यस्य धूलिया–जिलायाः गोन्दुरग्रामे एकस्मिन् दरिद्रपरिवारे अभवत्। तस्य पिता वनजी हंसराजः जात्या कर्मणा च सुतारः आसीत्। १९५२ तमे वर्षे तस्य विवाहः श्रीमती प्रमिलया सह अभवत्, तयोः १९५७ तमे वर्षे एकमात्रः पुत्रः अनिलरामसुतारः जातः। अनिलः व्यवसायतः वास्तुकारः अस्ति, अधुना सः नोएडास्थिते पितुः स्टूडियो–कार्यशालायाः देखरेखां करोति।
रामकृष्णजोशी–गुरोः प्रेरणया सः मुम्बईस्थिते जे०जे० स्कूल् ऑफ् आर्ट् इति कलाशालायां प्रविष्टवान् तथा १९५३ तमे वर्षे मॉडलिङ्ग् विषये सर्वोच्चाङ्कान् प्राप्य “मेयो गोल्ड मेडल्” सम्मानं लब्धवान्। १९५४ तः १९५८ पर्यन्तं औरङ्गाबादस्थिते पुरातत्त्वविभागे कार्यं कुर्वन् अजन्ता–एलोरागुहासु प्राचीनमूर्तीनां पुनर्स्थापनकार्यं कृतवान्। १९५८–५९ तमे वर्षे भारतसरकारस्य सूचना–प्रसारणमन्त्रालयस्य दृश्य–श्रव्यविभागे तकनीकीसहायकरूपेण अपि कार्यं कृतवान्। १९५९ तमे वर्षे स्वेच्छया सरकारीसेवां त्यक्त्वा सः व्यावसायिकः मूर्तिकारः अभवत्, ततः परिवारसहितः नोएडानगरं निवसितवान्।
रामसुतारः केवलं मूर्तिकारः न, अपि तु राष्ट्रगौरवं जीवंतं कर्तुं समर्थः कलाकारः आसीत्। सरदारवल्लभभाई पटेलस्य १८२ मीटर ऊर्ध्वा प्रतिमा, महात्मा गान्धेः ध्यानमग्नमुद्रायां निर्मिता प्रतिमा, तस्य करकमलेभ्यः निष्क्रान्ताः सर्वाः कृतयः देशस्य स्मृतिषु अमराः अभवन्। सामान्यपरिवारात् उद्भूतः सुतारः छेनी–हथौडीभ्यां स्वप्नान् उत्कीर्ण्य भारतं विश्वस्तरे गौरवान्वितवान्।
तस्य प्रमुखाः योगदानाः एते सन्ति—
मध्यप्रदेशे गङ्गासागरबन्धे ४५ फुट् ऊर्ध्वा चम्बलादेवीप्रतिमा,
अमृतसरे २१ फुट् ऊर्ध्वा महाराजरणजीतसिंहप्रतिमा,
नवदिल्ली संसदभवने १८ फुट् ऊर्ध्वा सरदारवल्लभभाई पटेलप्रतिमा,
गुजरातस्य गान्धीनगरे १७ फुट् ऊर्ध्वा मोहनदासकर्मचन्दगान्धीप्रतिमा,
जम्मूनगरे ९ फुट् ऊर्ध्वा भीमरावअम्बेडकरप्रतिमा,
राष्ट्रपतेः शंकरदयालशर्मणः आवक्षप्रतिमा,
अयोध्यायां निर्मिते राममन्दिरे स्थापितप्रतिमा,
विश्वस्य सर्वाधिकोच्चा १८२ मीटर (५९७ फीट्) ऊर्ध्वा “स्टैच्यू ऑफ् यूनिटी”,
तथा कुरुक्षेत्रस्य ब्रह्मसरोवरे स्थितः कृष्ण–अर्जुनरथः इत्यादयः।
एवं रामसुतारः स्वकलेन राष्ट्रस्य इतिहासे अमार्ज्यं चिह्नं स्थापयित्वा दिवंगतः।
---------------
हिन्दुस्थान समाचार