पटवारीनियुक्तये प्रपत्र सत्यापनस्य तिथिः 22 दिनांकं यावद्वर्धिता
जयपुरम्, 18 दिसंबरमासः (हि.स.)। पटवारपरीक्षा २०२५ अन्तर्गतं सफलाभ्यर्थिनां दस्तावेजसत्यापनस्य तिथिः आगामि २२ दिसम्बरदिनाङ्कपर्यन्तं विस्तारिताऽस्ति। उपनिबन्धकः (भूअभिलेख) रविन्द्रकुमारः अवदत् यत् अधिकाधिकाभ्यर्थिनां लाभाय पूर्वमेव त्रिदिनात्मकं अत
पटवारी भर्ती के लिए दस्तावेज सत्यापन


जयपुरम्, 18 दिसंबरमासः (हि.स.)।

पटवारपरीक्षा २०२५ अन्तर्गतं सफलाभ्यर्थिनां दस्तावेजसत्यापनस्य तिथिः आगामि २२ दिसम्बरदिनाङ्कपर्यन्तं विस्तारिताऽस्ति। उपनिबन्धकः (भूअभिलेख) रविन्द्रकुमारः अवदत् यत् अधिकाधिकाभ्यर्थिनां लाभाय पूर्वमेव त्रिदिनात्मकं अतिरिक्तावसरं प्रदाय १७ दिसम्बरदिनाङ्कपर्यन्तं दस्तावेजसत्यापनकार्यं सम्पन्नं कृतम्, यस्मिन् सार्ध षट्सहस्राधिकाभ्यर्थिनः सत्यापनलाभं प्राप्तवन्तः।

अधुना शेषाभ्यर्थिनां कृते अन्तिमावसरं प्रदाय २२ दिसम्बरदिनाङ्कस्य सायं पञ्चवादनपर्यन्तं दस्तावेजसत्यापनं कर्तुं निर्दिष्टम्। एतत् कार्यं यथावत् आरआरटीआई जयपुररोड् अजमेर इति स्थाने सम्पन्नं भविष्यति। अस्यां निर्धारितायां अवधौ अपि यदि कश्चन अभ्यर्थी प्रपत्रसत्यापनात् वञ्चितः भवति, तर्हि तस्य पात्रतां निरस्त्य चयनं अपि रद्दं करिष्यते।

---------------

हिन्दुस्थान समाचार