Enter your Email Address to subscribe to our newsletters

नवदेहली, 18 दिसम्बरमासः (हि.स.)। ‘स्टैच्यू ऑफ यूनिटी’ इत्यस्य निर्माता प्रख्यातश्च मूर्तिकारः राम–सुतारः तस्य निधनसमये गुरुवासरे राष्ट्रपतिः द्रौपदी–मुर्मुमहाभागा, केन्द्रीयगृहमन्त्री अमित–शाहः, विविधराज्यानां मुख्यमन्त्रिणश्च शोकं व्यक्तीकृत्य श्रद्धाञ्जलिम् अर्पितवन्तः।
राष्ट्रपतिः मुर्मुः ‘एक्स्’ माध्यमेन लिखितवती यत् पद्मभूषणेन अलंकृतस्य प्रख्यातस्य मूर्तिकारस्य राम–सुतारस्य निधनात् सा अत्यन्तं दुःखिता अस्ति। सा अवदत् यत् ‘स्टैच्यू ऑफ यूनिटी’ सहितं तस्य स्मारकीयानि कार्याणि भारतस्य कला–सांस्कृतिक–न्यासस्य महान्तः प्रतीकाः सन्ति, तथा तस्य कला आगामिन्यः पीढीः सदैव प्रेरयिष्यति। राष्ट्रपतिना शोकसन्तप्तपरिवाराय प्रशंसकेभ्यश्च गाढा संवेदना व्यक्ता।
अमित–शाहः राम–सुतारं भारतीयसंस्कृतेः विरासतायाश्च चिरस्मरणीयं कर्तुं समर्थं महान् शिल्पकारम् इति वर्णितवान्। सः अवदत् यत् अजन्ता–एलोरा–गुहासु स्थितानां मूर्तीनां जीर्णोद्धारे अपि राम–सुतारस्य महत्त्वपूर्णं योगदानम् आसीत्, तस्य निधनं च भारतीय–कला–जगतः कृते अपूरणीयं क्षतिः अस्ति। मार्ग–परिवहन–मन्त्री नितिन–गडकरीः अवदत् यत् विश्वस्य उच्चतमा प्रतिमा ‘स्टैच्यू ऑफ यूनिटी’ सहितम् अनेकेषां ऐतिहासिक–प्रतिमानां निर्माणं कृत्वा राम–सुतारेण भारतीय–मूर्तिकलाक्षेत्रे अमिटा छाप स्थापिताऽस्ति। उत्तरप्रदेशस्य मुख्यमन्त्री योगी–आदित्यनाथः दुःखं व्यक्तीकृत्य अवदत् यत् विश्वस्य उच्चतमाया प्रतिमायाः ‘स्टैच्यू ऑफ यूनिटी’ इत्यस्य निर्माता राम–सुतारस्य निधनात् कला–जगतः गम्भीरः आघातः प्राप्तः। सः दिवंगत–आत्मनः शान्त्यर्थं तथा शोकसन्तप्तपरिवाराय धैर्यप्रदानार्थं प्रार्थनां कृतवान्।
महाराष्ट्रस्य मुख्यमन्त्री देवेंद्र–फडणवीसः श्रद्धाञ्जलिम् अर्पयन् अवदत् यत् राम–सुतारस्य पार्थिवशरीरस्य अन्त्येष्टिः राजकीयसम्मानेन क्रियते। देहलीमुख्यमन्त्री रेखा–गुप्ता अवदत् यत् संसद्भवने महात्मा–गान्धेः प्रतिमातः आरभ्य सरदार–पटेलस्य विशालां ‘स्टैच्यू ऑफ यूनिटी’ प्रतिमां पर्यन्तं राम–सुतारेण स्वस्य अद्वितीयया कलया भारतीयं गौरवं सजीवं कृतम्। तस्य निधनं कला–जगतः कृते अपूरणीयं क्षतिः अस्ति।
राजस्थानस्य मुख्यमन्त्री भजनलाल–शर्मा अवदत् यत् महान् शिल्पकारः, विश्वस्य उच्चतमाया प्रतिमायाः ‘स्टैच्यू ऑफ यूनिटी’ इत्यस्य साकारकर्ता, पद्मभूषणेन सम्मानितः राम–सुतारः तस्य निधनसमाचारः अत्यन्तं पीडादायकः अस्ति। सः ईश्वरं प्रार्थितवान् यत् दिवंगत–आत्मनः सद्गतिः प्रदीयतां तथा शोकसन्तप्तपरिवाराय असह्यस्य दुःखस्य सहनाय संबलं दीयताम्। मध्यप्रदेशस्य मुख्यमन्त्री मोहन–यादवः राम–सुतारस्य निधनसमये गाढं शोकं व्यक्तीकृत्य अवदत् यत् तस्य गमनात् कला–जगतः स्वं बहुमूल्यं रत्नं नष्टवान्। गुजरातराज्ये ‘स्टैच्यू ऑफ यूनिटी’ रूपेण निर्मिता ‘लौहपुरुष’ सरदार–वल्लभभाई–पटेलस्य भव्य–प्रतिमा न केवलं भारतं, अपि तु सम्पूर्णं विश्वं एकता–अखण्डतायाः सन्देशं ददाति। तस्य अतुलनीयं योगदानं सदा स्मरणीयं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता