Enter your Email Address to subscribe to our newsletters

कोलकाता, 18 दिसंबरमासः (हि.स.)। पश्चिमबङ्गालराजधान्यां कोलकातायां साइंस सिटी परिसरे २१ दिसम्बरदिनाङ्के आयोजिते संघस्य शताब्दीवर्षीयकार्यक्रमे राष्ट्रीयस्वयंसेवकसंघस्य (आरएसएस) सरसंघचालकः मोहनराव भागवत् सहभागी भविष्यति। अस्मिन् विशेषायोजने सः द्वौ महत्त्वपूर्णौ संबोधनौ करिष्यति। तयोः संबोधनयोः केन्द्रबिन्दुः संघस्य शतवर्षीय सामाजिकयात्रा, व्यक्ति निर्माणात् राष्ट्रनिर्माणपर्यन्तं नीति, तथा एकजुटहिन्दुसमाजस्य माध्यमेन वैभवशालिभारतनिर्माणस्य लक्ष्यं भविष्यति।
दक्षिणबङ्गालस्य सहप्रचारप्रमुखः विप्लव रायः हिन्दुस्थान समाचारस्य सह विशेषवार्तालापे अवदत् यत् मोहनभागवतस्य कार्यक्रमस्य सर्वाः तयारीः पूर्णाः सन्ति। अस्य यात्राकाले सः कोलकातायाः प्रबुद्धवर्गेण सह अपि भेटं करिष्यति तथा तैः सह परिचर्चायाम् अपि भागं ग्रहीष्यति।
मोहनभागवतस्य अयं कोलकाताप्रवासः संघस्य शताब्दीवर्षस्य व्यापककार्यक्रमशृङ्खलायाः महत्त्वपूर्णः अङ्गः अस्ति। अस्मात् पूर्वं सः १८ तथा १९ दिसम्बरदिनयोः सिलीगुडीनगरे उत्तरबङ्गप्रान्तस्य तर्फेण आयोजितेषु शताब्दीवर्षीयकार्यक्रमेषु सहभागी भविष्यति। तत्र युवसम्मेलनम् तथा “संघस्य शतवर्षीय यात्रा” इति विषयक परिचर्चा आयोजिताः सन्ति। सिलीगुडीनगरे आयोजितेषु कार्यक्रमेषु उत्तरबङ्गालस्य अष्ट जिलानां तथा समीपवर्ती राज्यस्य सिक्किमस्य अपि सहभागिता अस्ति, यत्र संघस्य सेवा, अनुशासनं तथा प्रतिबद्धता विषये विस्तृतरूपेण चर्चा भविष्यति।
कोलकातायां साइंस सिटी परिसरॆ प्रथमसंबोधने मोहनभागवत् एतत् विवक्ष्यति यत् शताब्दीवर्षपर्यन्तं संघः कथं भारतस्य जनमानसे स्वस्थानं निर्मितवान् तथा व्यक्ति निर्माणात् राष्ट्रनिर्माणपर्यन्तं चिन्तनस्य अन्तर्गतं निरन्तरं त्यागेन, समर्पणेन तथा राष्ट्रभक्त्या सह कार्यं कृतवान्। अस्मिन् संदर्भे संघस्य सामाजिक, सांस्कृतिक तथा राष्ट्रनिर्माणे भूमिकायाः विषये सः विशेषं बलं दास्यति।
द्वितीयसंबोधने सः एकजुटसमाजस्य माध्यमेन वैभवशालिभारतनिर्माणस्य भविष्यदृष्टिं स्वविचाररूपेण प्रस्तोष्यति। अस्मिन् संबोधने सामाजिकसमरसता, सांस्कृतिकचेतना तथा राष्ट्रियएकतां सुदृढीकरणाय संघेन कृतप्रयासानां उल्लेखः करिष्यते। कार्यक्रमकाले मोहनभागवत् कोलकातायाः प्रबुद्धवर्गेण सह समागमं कृत्वा समसामयिकराष्ट्रीयविषयेषु संवादं करिष्यति।
उल्लेखनीयम् अस्ति यत् शताब्दीवर्षस्य अवसरॆ संघः देशव्यापीरूपेण विविधकार्यक्रमाणां माध्यमेन स्वस्य शतवर्षीय यात्रा, विचाराः तथा कार्याणि समाजस्य समक्षं स्थापयति। कोलकातायां अयं आयोजनम् अपि तस्यैव व्यापकाभियानस्य अंशः अस्ति, यस्मिन् पूर्वभारते संघस्य वैचारिकः सामाजिकः च प्रभावः विशेषरूपेण रेखाङ्कितः भविष्यति।-------------------
हिन्दुस्थान समाचार