Enter your Email Address to subscribe to our newsletters

अयोध्या, 18 दिसंबरमासः (हि.स.)।
श्रीरामजन्मभूमि तीर्थक्षेत्र ट्रस्टद्वारा प्रतिष्ठाद्वादश्याः पञ्चदिवसीयकार्यक्रमः प्रकाशितः अस्ति। प्रतिष्ठाद्वादश्यां नियमितः मानसपाठः, श्रीरामकथा तथा सायंकालात् रात्रौ नववादनपर्यन्तं सांस्कृतिककार्यक्रमाः भविष्यन्ति।
२९ दिसम्बरदिनाङ्के प्रातः अष्टवादनात् द्विवादनपर्यन्तं मानसपाठः, अपराह्ने द्विवादनार्धात् सायं पञ्चवादनार्धपर्यन्तं जगद्गुरु रामानन्दाचार्य स्वामी रामदिनेशाचार्येण कथावाचनम्, तथा सायंकाले पञ्चवादनार्धात् सप्तवादनपर्यन्तं छत्तीसगढस्थितेन गुरु घासीदास विश्वविद्यालयेन रामलीलायाः प्रस्तुतिर्भविष्यति। ३० दिसम्बरदिनाङ्के अपि एते एव कार्यक्रमाः तेषु एव समयेषु आयोजयिष्यन्ते।
३१ दिसम्बरदिनाङ्के प्रातः अष्टवादनात् सार्धद्वादशवादनपर्यन्तं मानसपाठः। अपराह्ने एकवादनात् त्रिवादनपर्यन्तं मुख्यमंत्री योगी आदित्यनाथेन तथा रक्षामन्त्री राजनाथसिंहेन उद्घाटनसत्रकार्यक्रमः, तदनन्तरं कथा भविष्यति। सायंकाले षड्वादनात् सार्धसप्तवादनपर्यन्तं कविसम्मेलनम्, तदनन्तरं वाराणस्याः अंशिका सिंहया प्रस्तुतिर्भविष्यति।
प्रथमजनवरीदिने प्रातः अष्टवादनात् द्विवादनपर्यन्तं मानसपाठः, ततः अपराह्ने द्विवादनार्धात् सायं पञ्चवादनार्धपर्यन्तं कथा। तदनन्तरं सायंकाले षड्वादनात् नववादनपर्यन्तं सांस्कृतिककार्यक्रमाः आयोजयिष्यन्ते। अस्मिन् अनूपजलोटस्य, तृप्तशाक्यायाः भजनप्रस्तुतिः, तथा फिरोजाबादस्थितेन मयूरी नृत्यसमूहेन रामकथाधारितायाः नृत्यनाटिकायाः प्रस्तुतिर्भविष्यति।
द्वितीयजनवरीदिने अपि दिनकालीनकार्यक्रमाः तथा तेषां समयाः यथावत् एव भविष्यन्ति। सायंकालीनसांस्कृतिककार्यक्रमेषु सुरेशवाडेकरस्य तथा संजोली पाण्डेयायाः कार्यक्रमाः आयोजयिष्यन्ते। सहैव दिल्लीस्थितेन शालिना चतुर्वेदीसमूहेन “रामस्य शक्तिपूजा” इति कथकनृत्यनाटिकाया प्रस्तुतिर्भविष्यति।
एतां सूचनां श्रीरामजन्मभूमि तीर्थक्षेत्र संवादकेन्द्रेण अयोध्याधामे गुरुवासरे प्रदत्ता।
हिन्दुस्थान समाचार