स्टैच्यू ऑफ यूनिटी इत्यस्य शिल्पकारो राम सुतारः 100 वर्षीय नोएडायां निधनंगतः
नव दिल्ली, 18 दिसंबरमासः (हि.स.)। विश्वस्य उच्चतमा प्रतिमा ‘स्टैच्यू ऑफ यूनिटी’ इत्यस्य अनुपम शिल्पकारः रामसुतारः बुधवासरस्य देररात्रौ दिल्ली एनसीआर क्षेत्रे नोएडा नगरे स्थिते स्वनिवासे दिवंगतः अभवत्। शतवर्षीयः सुतारः वयोसम्बन्धिभिः स्वास्थ्यसमस्या
463399595593ba798233617a5d28b340_918218996.jpg


नव दिल्ली, 18 दिसंबरमासः (हि.स.)। विश्वस्य उच्चतमा प्रतिमा ‘स्टैच्यू ऑफ यूनिटी’ इत्यस्य अनुपम शिल्पकारः रामसुतारः बुधवासरस्य देररात्रौ दिल्ली एनसीआर क्षेत्रे नोएडा नगरे स्थिते स्वनिवासे दिवंगतः अभवत्। शतवर्षीयः सुतारः वयोसम्बन्धिभिः स्वास्थ्यसमस्याभिः पीडितः आसीत्। तस्य कालजयी कृति सरदारवल्लभभाई पटेलस्य विशाल प्रतिमा ‘स्टैच्यू ऑफ यूनिटी’ इति नाम्ना गुजरातराज्ये स्थापिता अस्ति।

शिल्पकारस्य पुत्रः अनिलः अद्य माध्यमैः सह साझा कृतसन्देशे अवदत् — “अत्यन्तं दुःखेन वयं भवद्भ्यः सूचयामः यत् मम पिता श्रीरामवनजी सुतारः १७ दिसम्बर दिनाङ्कस्य मध्यरात्रौ अस्माकं निवासे देहत्यागं कृतवान्।”

रामसुतारस्य जन्म १९ फरवरी १९२५ तमे वर्षे महाराष्ट्रराज्यस्य धुले जनपदे गोंडूर ग्रामे एकस्मिन् साधारणे कुटुम्बे अभवत्। बाल्यकालात् एव तस्य मूर्तिकला प्रति गाढः अभिरुचिः आसीत्। सः मुम्बई नगरे स्थितात् जे जे स्कूल् ऑफ् आर्ट् ऐण्ड् आर्किटेक्चर् संस्थानात् स्वर्णपदकं प्राप्तवान्। तदनन्तरं सः भारतीयमूर्तिकलां नवोन्नतिं नयन्तं दीर्घं च उल्लेखनीयं रचनात्मकं यात्रापथं अनुसृतवान्।

नवदिल्लीस्थे संसदपरिसरे स्थापिते ध्यानमुद्रायां स्थिता महात्मा गान्धेः प्रतिमा तथा अश्वारूढस्य छत्रपति शिवाजीराजस्य प्रतिमा तस्य श्रेष्ठकृतिषु प्रमुखा मन्यन्ते।

रामसुतारः १९९९ तमे वर्षे पद्मश्री पुरस्कारं तथा २०१६ तमे वर्षे पद्मभूषण पुरस्कारं च प्राप्तवान्। अल्पकाले पूर्वमेव सः महाराष्ट्रराज्यस्य सर्वोच्चेन सम्मानेन ‘महाराष्ट्रभूषण’ इति अलङ्कृतः अभवत्।

गुजरातराज्यस्य केवडिया क्षेत्रे नर्मदानद्याः समीपे स्थापिता ‘स्टैच्यू ऑफ यूनिटी’ प्रतिमा भारतस्य प्रथम उपप्रधानमन्त्री तथा गृहमन्त्री सरदारवल्लभभाई पटेलाय समर्पिता अस्ति। एषा कृति तस्मै वैश्विकां ख्यातिं दत्तवती। एषा विश्वस्य सर्वाधिक ऊँचा प्रतिमा अस्ति। अस्य ऊँचता १८२ मीटर परिमिता अस्ति। एषा भारतस्य एकतायाः प्रतीकः अस्ति।

---------------

हिन्दुस्थान समाचार