(अद्यतनं) राष्ट्रस्य आत्मा संस्कृतौ भवति : मुख्यमंत्री योगी
लखनऊ, 18 दिसंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः लखनऊस्थिते भातखण्डे संस्कृतिविश्वविद्यालयस्य शताब्दीवर्षसमारोहस्य उद्घाटनकार्यक्रमे भाषमाणः अवदत् यत् राष्ट्रस्य आत्मा संस्कृतौ एव निहिता अस्ति। यथा मनुष्यस्य आत्मा शरीरात् विलग्ना भवति चे
कार्यक्रम को सम्बोधित करते हुए मुख्यमंत्री योगी


लखनऊ, 18 दिसंबरमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथः लखनऊस्थिते भातखण्डे संस्कृतिविश्वविद्यालयस्य शताब्दीवर्षसमारोहस्य उद्घाटनकार्यक्रमे भाषमाणः अवदत् यत् राष्ट्रस्य आत्मा संस्कृतौ एव निहिता अस्ति। यथा मनुष्यस्य आत्मा शरीरात् विलग्ना भवति चेत् शरीरं निस्तेजं भवति, तथैव राष्ट्रात् संस्कृतेः वियोगे राष्ट्रं निस्तेजं भवति, खण्डहररूपं गच्छति, स्वकीयं परिचयं च नाशयति।

मुख्यमन्त्रीणोक्तं यत् अस्मिन् एव वर्षे अस्माभिः अस्य शताब्द्याः महाकुम्भस्य आयोजनं कृतम्। ये जनाः मन्यन्ते स्म यत् अद्यतनयुवा स्वसंस्कृतेः विमुखो भवति, तैः तत्र दृष्टं यत् अस्मिन् महाकुम्भायोजने षट्षष्टिकोट्यधिकाः जनाः आगतवन्तः। तेषु आगच्छत्सु जनानां मध्ये युवानां संख्या सर्वाधिकासीद्।

ततः मुख्यमन्त्रीणोक्तं यत् अस्य जगतः आद्यः स्वरः ॐ इति अस्ति। योगाभ्यासे यदा तस्य श्रवणं कर्तुं प्रयत्नः क्रियते, तदा सः नादरूपेण गुंजायमानो भवति। एषा एव जगतः सत्यम्। एवं विज्ञानं वदति, अध्यात्ममपि एवं वदति, संस्कृतिरपि एतदेव वदति, एषः विश्वविद्यालयोऽपि वदति यत् नादाधीनं इदं जगत् अस्ति। तं नादं ज्ञातुं संगीतस्य विविधविधाभिः या साधना क्रियते, सा संगीतस्य अङ्गम् अस्ति।

मुख्यमन्त्री अवदत् यत् अद्य मम अत्यन्ता प्रसन्नता अस्ति यत् उत्तरप्रदेशः सः राज्यः अस्ति यतः स्वयं प्रधानमन्त्री नरेन्द्रमोदीः सांसदरूपेण देशस्य संसदि प्रतिनिधित्वं करोति। अत्र अस्माकं विशिष्टातिथिरूपेण उपस्थिता सोनल मान सिंह अपि अवदत् यत् अत्र यदा नृत्यं क्रियते तदा नटराजरूपेण भगवान् शिवः साक्षात् पुरतः दृश्यते। यदा वयं वीणायां स्वरान् लयबद्धान् कुर्मः तदा साक्षात् सरस्वती देवी अस्माकं पुरतः भवति। यदा नाटके संवादान् उच्चारयामः तदा श्रीरामस्य मर्यादा अस्माकं पुरतः प्रकटते। यदा वयं कस्यचित् रसस्य आस्वादने निमग्ना भवामः तदा श्रीकृष्णस्य रसलहरी अपि अस्माभिः सह संबद्धा इव दृश्यते। एतत् सर्वं कुत्र लभ्यते इति चेत् उत्तरप्रदेशस्य अन्तर्गतं एव सर्वं विद्यमानम् अस्ति।

---------------

हिन्दुस्थान समाचार