Enter your Email Address to subscribe to our newsletters

-योगी सर्वकारस्य नाम अंकिष्क्षते 10 वर्षेषु10 लक्षं सर्वकारीनियुक्तिगतं कीर्तिमानं संस्थापयितुम्
लखनऊ, 18 दिसंबरमासः(हि. स.)।
उत्तरप्रदेशसरकारः राज्यस्य युवजनाय आगामिवर्षे महदुपहारं दातुं सज्जा अस्ति। योगीसर्वकारेण आगामिवर्षे युवजनानां कृते लक्षपञ्चाशतसहस्रस्य शासकीयपदानां पूर्तये प्रयासाः तीव्रीकृताः सन्ति। मुख्यमन्त्री योगी आदित्यनाथः समीक्षानन्तरं संवत्सरे 2026 प्रदेशस्य युवजनानां कृते लक्षपञ्चाशतसहस्राणां शासकीयनियुक्तीनाम् अनुमतिं दत्तवान्। यदि एतत् कार्यान्वितं भवति, तर्हि संवत्सरे 2026 योगीसरकारस्य नाम्ना सर्वाधिकशासकीयसेवाप्रदानस्य कीर्तिमानः अंकितः भविष्यति। अपि च एषा एव प्रथमं सरकार भविष्यति, या दशवर्षेषु दशलक्षशासकीयसेवाप्रदानस्य कीर्तिमानं स्थापयिष्यति।
मुख्यमन्त्री योगी आदित्यनाथः अद्यतनकाले उच्चाधिकारिभिः सह बैठकां कृतवान्। तस्यां गोष्ठ्यां मुख्यमन्त्रिणा प्रदेशस्य विविधविभागेषु रिक्तपदानां विवरणं प्रार्थितम्। प्राप्तसूचनानुसारं योगीसर्वकारेण संवत्सरे 2026 पुलिसविभागे त्रिंशत्सहस्राणि आरक्षीपदानि, पञ्चसहस्राणि उपनिरीक्षकपदानि च सहितं प्रायः पञ्चाशत्सहस्राणि नूतनभर्त्याः क्रियन्ते।
शिक्षाविभागे सहाय्याध्यापकपदात् आरभ्य व्याख्याता, प्रधानाचार्यादिपदानि सहितं प्रायः पञ्चाशत्सहस्रेषु पदेषु भर्तीविज्ञापनं प्रकाशयितुं तयारी क्रियते। तथैव राजस्वविभागे विंशत्सहस्रेषु पदेषु भर्ती भविष्यति, यत्र लेखपालपदेषु सर्वाधिकं नियुक्तिः क्रियते। एतेषां अतिरिक्तं स्वास्थ्यविभागे, आवासविकासविभागे, कारागारविभागे, बालविकासपुष्टाहारविभागे च समग्रतया त्रिंशत्सहस्रेषु पदेषु भर्ती क्रियते।
विविधविभागेषु भर्तीप्रक्रियासम्बद्धस्य विज्ञापनप्रकाशनकार्यस्य अन्तिमचरणं प्राप्यते। केषुचन विभागेषु भर्तीप्रक्रिया आरब्धा अपि अस्ति। प्रस्तावितभर्तीनां प्रक्रिया पूर्णा सति आगामिवर्षपर्यन्तं योगीसर्वकारः एषः प्रथमं सर्वकारो भविष्यति, या दशवर्षेषु कीर्तिमानरूपेण दशलक्षजनानां शासकीयसेवां दत्तवती।
योगीसर्वकारो गतसार्धाष्टवर्षेषु प्रदेशस्य युवजनानां कृते विविधविभागेषु सार्धाष्टलक्षाधिकानां शासकीयसेवानां प्रदानं कृतवान्। एताः सर्वाः भर्त्याः पारदर्शिरूपेण निष्पक्षतया च सम्पन्नाः। अनेन प्रदेशस्य युवजनानां योगीसर्वकारे विश्वासः दृढतरः जातः। पूर्ववर्तिषु सरकारेषु उत्तरप्रदेशे शासकीयनियुक्तिषु पारदर्शिता नासीत्। योगीसरकारा अद्यावधि पुलिसविभागे एव द्विलक्षनवदशसहस्राधिकेषु पदेषु नियुक्तिं कृतवान् अस्ति।
सूचनानुसारं समग्रतया नूतनभर्तीनां संख्या लक्षपञ्चाशतसहस्राधिकाः भविष्यन्ति। प्रदेशसर्वकारस्य प्रवक्त्रा अवदत् यत् योगिसर्वकारः प्रदेशे युवजनानां शासकीयसेवाप्रदानविषये ऐतिहासिकं कीर्तिमानं स्थापितवती अस्ति।
---------------
हिन्दुस्थान समाचार