Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 18 (हि.स.)। उत्तरप्रदेश-विधानसभायाः शीतकालीन-सत्रकाले ‘वन्दे मातरम्’ विषयकं पञ्च-घण्टापर्यन्तं चर्चासत्रं आयोजयितुं निश्चयः कृतः। आगामि १९ डिसम्बर दिनाङ्के आरभ्यमाणात् विधानसभासत्रात् एकदिनपूर्वं अद्य गुरुवासरे कार्यमन्त्रणासमितेः सभा आयोजिता। अस्यां सभायां विधानसभाध्यक्षः सतीशमहानाः सहितः सत्तापक्षस्य अन्येषां दलानां च सदस्याः उपस्थिताः आसन्।
सभायाः बहिर्निर्गत्य समाजवादीदलस्य (सपा) नेता विधायकः रविदासमेहरोत्रः अवदत् यत् १९ डिसम्बरतः २४ डिसम्बरपर्यन्तं विधानसभायाः सत्रं संचालितं भविष्यति। प्रथमदिने सदने निधनसम्बन्धी शोकप्रस्तावानन्तरं कार्यवाही स्थगिता भविष्यति। शनिवासरः रविवासरश्च अवकाशदिनौ भविष्यतः। सोमवासरे अर्थात् २२ डिसम्बरदिनाङ्के पुनः सदनस्य कार्यवाही आरभ्यते। तस्मिन्नेव दिने ‘वन्दे मातरम्’ विषयकं चर्चासत्रं भविष्यति।
विपक्षीय विधायकः सपा-नेता रविदासमेहरोत्रः पत्रकारान् प्रति अवदत् यत् सर्वकारेण ‘वन्दे मातरम्’ विषयकचर्चायै चतुर्घण्टापर्यन्तं प्रस्तावः प्रस्तुतः आसीत्। विपक्षेण अष्टघण्टापर्यन्तं चर्चायाः अभ्यर्थना कृता। अस्मिन् विषये पञ्चघण्टापर्यन्तं चर्चायां सहमति: प्राप्ता। सः अपि अवदत् यत् कार्यमन्त्रणासमितेः सभायां विपक्षेण सत्रदिवसानां वृद्धेः अभ्यर्थना कृता। अपि च शनिवासरे रविवासरे च अवकाशं स्थगयित्वा सदनस्य कार्यवाही संचालनीया इति अपि अभ्यर्थना कृता। अस्य विषये सर्वकारस्य तर्फात् विचारः कर्तव्यः इति उक्तम्। विधानसभायाः कार्यवाही २४ डिसम्बरपर्यन्तं चलिष्यति इति प्रस्तावितं कार्यक्रमं अस्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani