सम्पूर्णानन्द–संस्कृत–विश्वविद्यालये कार्यपरिषदः गोष्ठ्यां महत्त्वपूर्णनिर्णयाः
वाराणसी, 18 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य वाराणस्यां स्थिते सम्पूर्णानन्द–संस्कृत–विश्वविद्यालये कुलपतिना प्रो. बिहारीलाल–शर्मणा अध्यक्षतया गुरुवासरे परिसरस्थिते योगसाधना–केन्द्रे कार्यपरिषदः महत्त्वपूर्णा गोष्ठीऽभवत्। अस्यां गोष्ठ्यां क
कार्यपरिषद की बैठक


वाराणसी, 18 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य वाराणस्यां स्थिते सम्पूर्णानन्द–संस्कृत–विश्वविद्यालये कुलपतिना प्रो. बिहारीलाल–शर्मणा अध्यक्षतया गुरुवासरे परिसरस्थिते योगसाधना–केन्द्रे कार्यपरिषदः महत्त्वपूर्णा गोष्ठीऽभवत्। अस्यां गोष्ठ्यां कार्यपरिषदः सदस्यैः विविधेषु विषयेषु महत्त्वपूर्णाः निर्णयाः कृताः। उच्चन्यायालयस्य निर्णयानुसारेण डॉ. राणी–द्विवेदीमहाभागायै भाषाविज्ञान (ऐतिहासिक) विषयस्य सहायकाचार्यपदे नियुक्तिः प्रदत्ता।

गोष्ठ्यां विश्वविद्यालयसम्बद्धेषु महाविद्यालयेषु प्राचार्य–प्रधानाचार्ययोः नियुक्तिविषये नियमसम्मतं विमर्शः अभवत्। नियुक्तिषु शुचिता सुनिश्चितुं कार्यपरिषदा अधिनियम–परिनियमयोः विधिकरूपेण परिवर्तनं संशोधनं वा करणीयमिति निर्णीतम्। भविष्ये स्नातकोत्तरस्तरीयमहाविद्यालयेषु न्यूनातिन्यूनं पञ्चवर्षात्मकम् अध्यापनानुभवः, तथा वेतन–मानदेय–पारिश्रमिकादीनां देयं वित्तकोषमाध्यमेन भवेत् इति शर्तेषु नियुक्तिः करणीयेति निर्णयः कृतः।

पूर्वं कार्यपरिषदा पारितान् आदेशान् पुष्टयित्वा, संस्कृतमहाविद्यालयानां अध्यापक–प्रधानाचार्य–प्राचार्यनियुक्तिषु शुचिता, गोपनीयता तथा पारदर्शितां दृष्ट्वा चयनार्थं सम्पूर्णभारतस्य विश्वविद्यालय–महाविद्यालयेभ्यः विशिष्टविषयविशेषज्ञाः नामयितुं कार्यपरिषदा सहमतिर्दत्ता। व्याकरणविभागस्य सहायकाचार्यः डॉ. ज्ञानेन्द्र–सांपकोटा तथा वेदविभागस्य सहायकाचार्यः डॉ. विजयकुमार–शर्मा इत्येतयोः कैरियर–एडवांसमेंट–स्कीम इत्यस्य अन्तर्गतं वरिष्ठवेतनमानप्रदानाय अपि सहमतिः अभवत्।

अस्यां गोष्ठ्यां कार्यपरिषदः सदस्याः न्यायमूर्तिः अनिरुद्ध–सिंहः, राज्यपालस्य ओएसडी डॉ. पंकज–एल्–जानी, केन्द्रीयसंस्कृतविश्वविद्यालयस्य (नवदेहली) कुलपतिः प्रो. श्रीनिवास–बरखेड़ी इत्यादयः आभासिमाध्यमेन, तथा कुलसचिवः राकेश–कुमारः, वित्ताधिकारी हरिशंकर–मिश्रः, प्रो. रमेश–प्रसादः, प्रो. विधु–द्विवेदी, प्रो. राजनाथः, प्रो. शंभूनाथशुक्लः, प्रो. महेन्द्रपाण्डेयः, प्रो. विद्याकुमारी–चन्द्रा, प्रो. अमितकुमारशुक्लः, डॉ. विशाखाशुक्ला च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani