काकोर्याः अमरशहीदान् प्रति गृहमन्त्री अमितशाहः सहितः बहवः नेतारः नमनम् अकुर्वन्
नवदेहली, १९ दिसम्बरमासः (हि.स.)। स्वातन्त्र्यसंग्रामकाले आङ्ग्लशासनस्य विरुद्धं काकोरीरेलाक्रान्तेः नायकाः पण्डितरामप्रसादबिस्मिलः, अशफाक-उल्लाखानः, ठाकुररोशनसिंहश्च एतेषां बलिदानदिवसे देशव्यापिनी श्रद्धाञ्जलिः समर्पिता। केन्द्रीयगृहमन्त्री अमितशाह
केंद्रीय गृह मंत्री अमित शाह (फाइल फोटो)।


नवदेहली, १९ दिसम्बरमासः (हि.स.)। स्वातन्त्र्यसंग्रामकाले आङ्ग्लशासनस्य विरुद्धं काकोरीरेलाक्रान्तेः नायकाः पण्डितरामप्रसादबिस्मिलः, अशफाक-उल्लाखानः, ठाकुररोशनसिंहश्च एतेषां बलिदानदिवसे देशव्यापिनी श्रद्धाञ्जलिः समर्पिता। केन्द्रीयगृहमन्त्री अमितशाहः, कांग्रेसदलाध्यक्षः मल्लिकार्जुनखरगेः, कांग्रेसमहासचिवा प्रियङ्कागान्धीवाड्रा च, विभिन्नराज्येषां मुख्यमन्त्रिणः अपि एतेषां अमरक्रान्तिकारिणां सर्वोच्चबलिदानं प्रति नमनम् अकुर्वन्।

केन्द्रीयगृहमन्त्री अमितशाहः सामाजिकमाध्यमे प्रकाशिते सन्देशे अवदत् यत् काकोरीरेलाक्रान्त्या एते वीराः स्वातन्त्र्यसंग्रामं नूतनया ऊर्जया पूरितवन्तः, आङ्ग्लशासनस्य आधारं च कम्पितवन्तः। देशस्य संसाधनेषु देशवासिनां अधिकारः भवेत्—इति सङ्कल्पं एते सेनानिनः सम्पादितवन्तः, आगामिपीढीनां क्रान्तिकारिणां कृते साहसपराक्रमयोः प्रेरणास्रोतश्च अभवन्।

कांग्रेसदलाध्यक्षः मल्लिकार्जुनखरगेः त्रयाणाम् शहीदानां संयुक्तशहादतिं नत्वा अवदत् यत् गङ्गाजमुनासंस्कृतिः तथा विविधतायां ऐक्यमेव भारतस्य आधारः। ये सर्वं विषयं साम्प्रदायिकदृष्ट्या पश्यन्ति, तैः एतेषां अमरशहीदानां संयुक्तपरम्परातः प्रेरणा ग्रहीतव्या इति तेन उक्तम्।

कांग्रेसमहासचिवा प्रियङ्कागान्धीवाड्रा अवदत् यत् रामप्रसादबिस्मिलः, अशफाक-उल्लाखानः, रोशनसिंहश्च—एतेषां शहादतिः हिन्दुस्तानस्य तस्यां महत्यां संयुक्तपरम्परायां प्रतीकं वर्तते, यत्र कोटयः भारतीयाः स्वातन्त्र्याय समर्पिताः। शहीदानां स्वप्नं स्वातन्त्र्यसमतान्यायभ्रातृत्वाधारितं भारतम् आसीत्; तस्य सिद्धकरणमेव सत्यश्रद्धाञ्जलिरिति सा अवदत्।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः काकोरीरेलाक्रान्तिं भारतस्य स्वाभिमानस्य अमरनिनादं वर्णयन् अवदत् यत् एते क्रान्तिकारिणः मातृभूमेः सम्मानाय स्वातन्त्र्याय च स्वसर्वस्वं समर्पितवन्तः। तेषां परम्परा राष्ट्रहितं सर्वोपरि स्थापयितुं निरन्तरं प्रेरणां दास्यति। देहलीराज्यस्य मुख्यमन्त्री रेखागुप्ता अवदत् यत् यदा भारतं परतन्त्रताया बन्धनैः आबद्धम् आसीत्, तदा एते क्रान्तिदूताः काकोरीभूमौ आङ्ग्लसाम्राज्यस्य आधारान् कम्पितवन्तः। तेषां साहसं सुप्तं राष्ट्रं प्रबोध्य स्वातन्त्र्यसंग्रामस्य दिशां परिवर्तितवान्।

मध्यप्रदेशस्य मुख्यमन्त्री डाॅ. मोहनयादवः अवदत् यत् अमरशहीदानां मातृभूमेः स्वातन्त्र्यस्य दृढसङ्कल्पाय कृतं सर्वस्वसमर्पणं सम्पूर्णं राष्ट्रं जागरूकं कृतवन्, यस्य ऋणं देशः कदापि परिशोधयितुं न शक्नोति। राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा अपि त्रयाणां क्रान्तिकारिणां प्रति श्रद्धाञ्जलिं समर्प्य अवदत् यत् राष्ट्रभक्तिसाहसपूर्णः तेषां त्यागः आगामिपीढीनां कृते सदा प्रेरणास्रोतः भविष्यति।

उल्लेखनीयं यत् १९ दिसम्बर १९२७ तमे वर्षे काकोरीरेलाक्रान्तेः महानायकः पण्डितरामप्रसादबिस्मिलः गोरखपुरे, अशफाक-उल्लाखानः फैजाबादे, ठाकुररोशनसिंहः प्रयागराजे च मृत्युदण्डेन दण्डिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता