Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 19 दिसंबरमासः (हि.स.)।
आन्ध्रप्रदेशस्य विजयवाड़ा नगरे २२ दिसम्बरतः २८ दिसम्बरपर्यन्तं आयोजितायां ८७ तमायां वरिष्ठराष्ट्रीयबैडमिंटनचैम्पियनशिप् प्रतियोगितायां भागग्रहणाय असमराज्यस्य पुरुषमहिलादलयोः घोषणा कृता अस्ति। असमबैडमिंटनसंघेन शुक्रवासरे दलघोषणा कृता।
असमबैडमिंटनसंघस्य महासचिवः उमररशीदः एकस्मिन् वक्तव्ये अवदत् यत् चयनितं दलं विजयवाड़ा नगरं गमिष्यति। प्रतियोगितायां राज्यस्य श्रेष्ठाः शटलराः विविधेषु वर्गेषु स्वचुनौतीं प्रस्तोष्यन्ति।
पुरुषदले अरिजीत् चालिहा, तन्मय् विकास् बरुवा, बर्निल् आकाश् सांगमाई, हिमानिश् दासः, सूरज् गोवाला, निबिर् रञ्जन् चौधुरी, ज्योतिस्मय् गोगोई, सौरभ् दासः, विशाल् देव् चौधुरी, सैयद् अली रेजा, आयान् रशीद्, स्वर्णराज् बोरा, अनिमेष् गोगोई, अनयन् बोरा, अंशुमान् कश्यपः तथा दिक्षित् गोगोई इत्येते समाविष्टाः सन्ति।
महिलादले ईशाराणी बरुवा, शान्तिप्रिया हाजरिका, मयूरी बर्मन्, गार्गी सैकिया, मनाली बोरा, भविष्या सांगमाई, अनुष्री महन्ता, प्राप्ति बरुवा, प्रिंची दास, यशस्वी देवनिल, अभिका बरगोहाईं, सुजेन बूढ़ागोहाईं तथा रिक्षिता चालिहा इत्यासां चयनं कृतम्।
दलस्य सह प्रशिक्षकरूपेण बह्निमान् बोरा, अभिजीत् दत्तः तथा अमित् साहा, तथा फिजियोथेरेपिस्ट् रूपेण गंगोत्री दत्ता अपि विजयवाड़ां गमिष्यन्ति।
---------------
हिन्दुस्थान समाचार