बांग्लादेशे इंकलाब मंचस्य नेता हादी मृतः, समर्थकाः खिन्नाः, सामाजिक संपत्तिम्अनाशयन्, राष्ट्रियश्शोको घोषितः
ढाका, 19 दिसंबरमासः (हि.स.)। बाङ्ग्लादेशदेशे शेख् हसीना सर्वकारस्य विरोधे सञ्चालिते आन्दोलनॆ प्रमुखभूमिकां निर्वहणं कृतवन्तः इन्कलाब् मञ्चस्य संयोजकः शरीफ् उस्मान् हादी गुरुवासरे सिङ्गापुरदेशे चिकित्सोपचारकाले निधनं गतः। एषा वार्ता प्रसृतमात्रेणैव
उस्मान हादी (फाइल फोटो)


ढाका, 19 दिसंबरमासः (हि.स.)।

बाङ्ग्लादेशदेशे शेख् हसीना सर्वकारस्य विरोधे सञ्चालिते आन्दोलनॆ प्रमुखभूमिकां निर्वहणं कृतवन्तः इन्कलाब् मञ्चस्य संयोजकः शरीफ् उस्मान् हादी गुरुवासरे सिङ्गापुरदेशे चिकित्सोपचारकाले निधनं गतः। एषा वार्ता प्रसृतमात्रेणैव ढाकानगरे गुरुवासरस्य रात्रौ विलम्बे हिंसा प्रादुर्भूता। प्रदर्शनकारिणः स्थानस्थानेषु अग्निदाहं कृत्वा घोषणाः अकुर्वन्, तथा आवामी लीग् दलस्य कार्यालयान् लक्ष्यीकृतवन्तः। अनेकेषु समाचारपत्रकार्यालयेषु अपि तैः संपत्तिनाशोऽपि कृतः।

प्रमुखः सञ्चारमाध्यमसमूहः “प्रथम आलो” विदेशमन्त्रालयस्य एकस्य अधिकारिणः सन्दर्भेण अवेदयत् यत् इन्कलाब् मञ्चस्य संयोजकः शरीफ् उस्मान् हादी गुरुवासरे सिङ्गापुरे चिकित्सोपचारकाले दिवङ्गतः।

द्वादशे डिसम्बर् दिने ढाकानगरस्य बिजॉयनगर्-क्षेत्रे निर्वाचनप्रचारकाले अज्ञातैः आक्रमणकारिभिः हादीस्य शिरसि गोली प्रहृता। गम्भीरावस्थायां तं प्रथमं ढाकायां चिकित्सालये प्रविष्टं कृत्वा, पञ्चदशे डिसम्बर् दिने वायुरोगिवाहनेन सिङ्गापुरं प्रेषितवन्तः।

शरीफ् उस्मानस्य निधनवार्तां श्रुत्वा तस्य समर्थकाः मार्गेषु अवतरन्। बहुसंख्यकाः उग्रसमर्थकाः स्थानस्थानेषु अग्निदाहं तोडफोडं च अकुर्वन्। अस्मिन् काले आवामी लीग् दलस्य कार्यालयानि लक्ष्यीकृतानि। शेख् हसीनायाः भारतदेशस्य च विरुद्धं घोषणाः कृताः। “प्रथम आलो” “डेली स्टार्” इत्यादीनां समाचारपत्राणां कार्यालयेषु तोडफोडः अग्निदाहश्च कृतः। उग्रसमर्थकाः अधिकारिणः हादीस्य सुरक्षायां असफलाः अभवन् इति आरोपं कृतवन्तः।

बाङ्ग्लादेशस्य अन्तरिमसर्वकारस्य प्रमुखः मोहम्मद् यूनुस् राष्ट्रं प्रति सम्बोधनं कृत्वा जनान् शान्तिं धारयितुं विधिं स्वहस्ते न ग्रहीतुम् आह्वानं कृतवान्। सः हादीं निडरयोद्धा इति वर्णयन् शुक्रवासरं राष्ट्रियशोकदिवसः इति घोषितवान्। सः अवदत् यत् हादीस्य हन्तारः कदापि न क्षम्यन्ते। अपि च सरकारया हादीस्य भार्यायाः एकमात्रस्य च पुत्रस्य उत्तरदायित्वं स्वीकर्तुं वचनं दत्तम्।

जुलाई २०२४ तमे वर्षे शेख् हसीना सर्वकारविरोधि आन्दोलनॆ प्रमुखभूमिकां निर्वहणं कृतवान् हादी आवामी लीग् दलस्य संवैधानिकनिषेधस्य मागं कृतवान् आसीत्। शेख् हसीनायाः कट्टरविरोधी हादी भारतविरोधि वक्तव्येषु अपि समये समये प्रवृत्तः आसीत्। सः आगामिनिर्वाचने ढाका-८ क्षेत्रात् स्वतन्त्रप्रत्याशी रूपेण प्रचारं कुर्वन् आसीत्। अस्मिन्नेव काले द्वादशे डिसम्बर् दिने अज्ञातैः आक्रमणकारिभिः सः गोलीप्रहारेण आहतः, यस्य फलस्वरूपेण चिकित्सोपचारकाले सिङ्गापुरदेशे तस्य निधनं जातम्।

---------------

हिन्दुस्थान समाचार