भाजपायाः राष्ट्रियकार्यकारी-अध्यक्षपदं प्राप्य नितिननबीनः २३ दिसम्बरदिनाङ्के प्रथमवारं पाटलिपुत्रम् आगमिष्यति, भव्यः मार्गप्रदर्शनोत्सवश्च आयोजितो भविष्यति
पाटलिपुत्रम्, १९ दिसम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) राष्ट्रीयकार्यकारी-अध्यक्षपदं स्वीकृत्य नितिननबीनः २३ दिसम्बरदिनाङ्के नवदेहलीतः पाटलिपुत्रं प्रथमवारं आगमिष्यति। एतत् बिहार-भाजपायाः प्रदेशाध्यक्षः संजयसरावगीः शुक्रवारे अवगतवान्। संज
भाजपा के राष्ट्रीय कार्यकारी अध्यक्ष बनने के बाद 23 दिसंबर को पटना आएंगे नितिन नबीन


पाटलिपुत्रम्, १९ दिसम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) राष्ट्रीयकार्यकारी-अध्यक्षपदं स्वीकृत्य नितिननबीनः २३ दिसम्बरदिनाङ्के नवदेहलीतः पाटलिपुत्रं प्रथमवारं आगमिष्यति। एतत् बिहार-भाजपायाः प्रदेशाध्यक्षः संजयसरावगीः शुक्रवारे अवगतवान्।

संजयसरावगीः अवदत् यत् दलस्य कार्यकर्तारः दीर्घकालादेव तस्य आगमनस्य प्रतीक्षां कुर्वन्ति स्म, सा प्रतीक्षा अधुना समाप्ता भविष्यति। नितिननबीनः २३ दिसम्बरदिनाङ्के मध्यान्हे १२:३० वादने पाटलिपुत्रविमानपत्तनं प्राप्स्यति। ततः सः मार्गप्रदर्शनं कृत्वा मिलरहाईस्कूलक्षेत्रे गमिष्यति, यत्र तस्य अभिनन्दनसमारोहः आयोजितो भविष्यति।

सः अवदत् यत् मार्गप्रदर्शनोत्सवः पाटलिपुत्रविमानपत्तनात् आरभ्य शेखपुराहाउस, राजवंशीनगरहनुमानमन्दिरं (यत्र सः पूजा-अर्चनां करिष्यति), पुनाईचकं, उच्चन्यायालयं, बाबासाहेबभीमराव-आम्बेडकरस्य प्रतिमायां माल्यार्पणं, तथा आयकरगोलम्बरस्थिते लोकनायकजयप्रकाशनारायणस्य प्रतिमायां पुष्पाञ्जलिसमर्पणं कृत्वा मिलरहाईस्कूलक्षेत्रं यावत् भविष्यति।

भाजपायाः प्रदेशाध्यक्षः अवदत् यत् दलः प्रदेशाध्यक्षस्य दायित्वं दत्त्वा येन विश्वासं दर्शितवान्, तस्मिन् सः पूर्णया निष्ठया समर्पणेन च विश्वासस्य पात्रं भवितुं प्रयतिष्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता