Enter your Email Address to subscribe to our newsletters

मुख्यमंत्री विष्णु देवोददात् सूचना
रायपुरम्, 19 दिसंबरमासः (हि.स.)।छत्तीसगढराज्येन राष्ट्रियमञ्चे महत् कीर्तिमानं स्थापितम्। छत्तीसगढः मिलेनियर फार्मर आफ् इण्डिया २०२५ इति पुरस्कारः प्राप्तः। अयं पुरस्कारः औषधीयसुगन्धितवनस्पतीनां कृषिकरणक्षेत्रे प्रदत्तः।
मुख्यमंत्री विष्णुदेवसायः गतायां रात्रौ सामाजिकमाध्यमे लेखं प्रकाशितवान्। सः अस्य सम्मानस्य कृते सम्बन्धितान् अधिकारिणः संस्थाः तथा किसानभ्रातॄन् प्रति हार्दिकाः अभिनन्दनशुभाशयाः व्यक्तवान्। स्वलेखे सः अवदत् यत् मिलेनियर फार्मर आफ् इण्डिया २०२५ पुरस्कारस्य अन्तर्गतं औषधीयसुगन्धितवनस्पतीनां कृषिकरणक्षेत्रे धमतरी मुंगेली तथा गौरेला पेण्ड्रा मरवाही इति जिलानां कृषि क्षेत्रे निजी निवेशानां माध्यमेन आजीविकाविकासे प्रशासनिक उत्कृष्टतायै सम्माननं छत्तीसगढस्य सशक्तकृषिनीत्याः प्रभावीप्रशासनस्य च स्पष्टं प्रमाणम् अस्ति।
एषा उपलब्धिः कृषकाणां आयवृद्धिं स्थानीयसंसाधनानां वैज्ञानिकोपयोगं ग्रामीणअर्थव्यवस्थायाः सुदृढीकरणं च प्रति निरन्तरं क्रियमाणानां प्रयासानां द्योतकं भवति। एतत् सर्वेषां कृते गर्वस्य क्षणः अस्ति इति मुख्यमन्त्रिणा उक्तम्।
मुख्यमन्त्रिणा पुनः उक्तं यत् एषः सम्मानः छत्तीसगढस्य सशक्तकृषिनीत्याः प्रभावीप्रशासनस्य च प्रमाणम्। अग्रे सः अलिखत् यत् छत्तीसगढः नवाचारस्य सततकृषेः समावेशीविकासस्य च संकल्पेन सह निरन्तरं अग्रे वर्धते।
______________
हिन्दुस्थान समाचार