Enter your Email Address to subscribe to our newsletters

२० दिसम्बर् १९८८ भारतीयलोकतन्त्रस्य इतिहासे एकः महत्वपूर्णः दिवसः इति रूपेण अङ्कितः अस्ति। अस्मिन्नेव दिने संसदेन द्विषष्टितमं संविधानसंशोधनविधेयकं स्वीकृतम्, येन मतदानस्य न्यूनतमायुः एकविंशतिवर्षेभ्यः अष्टादशवर्षपर्यन्तं न्यूनीकृता। अनेन ऐतिहासिकनिर्णयेन देशस्य कोट्यधिकानां युवानां लोकतान्त्रिकप्रक्रियायां प्रत्यक्षसंलग्नतायाः मार्गः उद्घाटितः।
अस्य संशोधनस्य उद्देश्यं युवावर्गाय राजनीतौ शासनव्यवस्थायां च सक्रियभागीदारीस्य अवसरं प्रदातुम् आसीत्। अष्टादशात् एकविंशतिवर्षपर्यन्तं वयसि स्थिताः नागरिकाः शिक्षायां, रोजगारक्षेत्रे, सामाजिकक्रियासु च सक्रियाः आसन्, किन्तु तेषां मतदानाधिकारः न आसीत्। संविधानसंशोधनानन्तरं एषा असङ्गतिः निरस्ता, युवाभ्यः स्वप्रतिनिधीन् चयनितुं संवैधानिकः अधिकारः प्राप्तः।
अनेन निर्णयेन निर्वाचनप्रक्रियायां युवानां भूमिका दृढतरा अभवत्। बहूनां नवीनमतदातॄणां संयोगेन राजनीतिकदलानां नीतिषु निर्वाचनकार्यसूचिषु च युवासम्बद्धाः विषयाः प्रमुखस्थानं प्राप्नुवन्। शिक्षा, रोजगारः, क्रीडा, प्रौद्योगिकी, सामाजिकन्यायः इत्यादिषु विषयेषु राजनीतिकसंवादः नूतनां दिशां प्राप।
द्विषष्टितमं संविधानसंशोधनं भारतीयलोकतन्त्रं अधिकं समावेशी सशक्तं च कर्तुं महत्त्वपूर्णं पादम् इति मन्यते। अयं निर्णयः अद्यापि लोकतन्त्रे युवानां निर्णायकभूमिकायाः स्मरणं करोति, तथा नागरिकाधिकारविस्तारस्य एकं महत्त्वपूर्णं उदाहरणम् अस्ति।
---
महत्वपूर्णघटनाचक्रम्
१७५७ – लार्ड् क्लाइव् बंगालदेशस्य गवर्नर् पदे नियुक्तः।
१७८० – ब्रिटेनदेशेन हालैण्ड्देशस्य विरुद्धं युद्धघोषणा कृता।
१८३० – ब्रिटेन, फ्रान्स्, ऑस्ट्रिया, रूसदेशैः बेल्जियमदेशः मान्यतां प्राप्तः।
१९१९ – अमेरिकादेशस्य प्रतिनिधिसभया आव्रजनं निषिद्धम्।
१९२४ – जर्मनीदेशे अडोल्फ् हिटलरः कारागारात् मुक्तः।
१९४२ – कलकत्तानगरस्य उपरि जापानीयानां प्रथमः वायुआक्रमणम्।
१९४६ – महात्मा गान्धीः श्रीरामपुरे एकमासपर्यन्तं अवसत्।
१९५१ – ओमान् ब्रिटेनदेशयोः सन्धेः अनन्तरं ओमानदेशः स्वतन्त्रः अभवत्।
१९५१ – अमेरिकादेशे प्रथमवारं परमाणुशक्तिउत्पादकयन्त्रेण विद्युत् उत्पादिता।
१९५५ – भारतीयगोल्फसंघस्य स्थापना।
१९५६ – अमेरिकादेशस्य सर्वोच्चन्यायालयेन बसयानासु जातीयभेदभावः निषिद्धः।
१९५७ – गोरखप्रसादेन “हिन्दीविश्वकोश” सम्पादनभारः स्वीकृतः।
१९५९ – जासू पटेलः ऑस्ट्रेलियादेशस्य विरुद्धं कानपुरटेस्टक्रीडायां नव विकेट् प्राप्तवान्।
१९६३ – बर्लिनभित्तिः प्रथमवारं पश्चिमबर्लिनवासिभ्यः उद्घाटिता।
१९७१ – याह्या खानः पाकिस्तानदेशस्य राष्ट्रपतिपदात् त्यागपत्रं दत्तवान्, जुल्फिकार् अली भुट्टो राष्ट्रपतिः अभवत्।
१९७३ – स्पेनदेशस्य प्रधानमन्त्री एडमिरल् लुईस् करेरो ब्लांको कार्बमाक्रमणे हतः।
१९७६ – इजरायलदेशस्य प्रधानमन्त्री यित्जाक् राबिनः पदत्यागं कृतवान्।
१९८५ – तिरुपतिबालाजीमन्दिरे भगवान् वेङ्कटेश्वराय हीरजडितः मुकुटः समर्पितः।
१९८८ – संसदेन द्विषष्टितमसंविधानसंशोधनेन मतदानायुः २१ तः १८ वर्षाणि कृतानि।
१९९० – भारतपाकिस्तानयोः परस्परं परमाण्वाक्रमणं न करिष्यावः इति सन्धिः।
१९९१ – पॉल् कीटिंग् ऑस्ट्रेलियादेशस्य प्रधानमन्त्री अभवत्।
१९९३ – भारतयूरोपीयसङ्घयोः ब्रसेल्सनगरे सहयोगसन्धिः।
१९९८ – त्रयोदशानाम् एशियाईक्रीडानां समापनम्।
१९९८ – बिल् क्लिन्टनः कैनेथ् स्टारः च “टाइम् पर्सन ऑफ द इयर” घोषितौ।
१९९८ – चीनदेशेन इरिडियमाधारितौ द्वौ सञ्चारउपग्रहौ प्रक्षिप्तौ।
१९९९ – “डिस्कवरी” अन्तरिक्षयानं हबल् दूरदर्शकस्य जीर्णोद्धारर्थं प्रेषितम्।
१९९९ – मकाऊ चीनदेशस्य भागः अभवत्।
२००२ – दक्षिणकोरियादेशेन उत्तरकोरियाविषये अमेरिकादेशात् सहयोगः याचितः।
२००७ – पाकिस्तानदेशस्य संघीयशरीयन्यायालयेन नागरिकताकानूनः महिलानां प्रति भेदभावपूर्णः इति घोषितः।
२००८ – भारतीयस्टेटबैंकः निक्षेपऋणयोः ब्याजदरान् न्यूनान् अकरोत्।
२००८ – उत्तरप्रदेशे उद्योगव्यापारप्रतिनिधिमण्डलनिर्वाचनं स्थगितम्।
२००८ – भारतदेशः विश्वविद्यालयीयक्रीडानाम् आतिथ्यं प्राप्तवान्।
---
जन्मानि
१८७१ – गोकरननाथ मिश्रः – प्रसिद्धः राजनीतिज्ञः नेता न्यायविद् च।
१९१७ – धनराज भगतः – मूर्तिकारः चित्रकारश्च।
१९२८ – मोतीलाल् वोरा – भारतीयराष्ट्रियकांग्रेसस्य वरिष्ठः नेता।
१९३३ – सुनील् कोठारी – प्रसिद्धः नृत्यइतिहासकारः विद्वान् आलोचकः च।
१९३६ – रॉबिन् शॉ पुष्पः – प्रसिद्धः साहित्यकारः।
१९४० – यामिनी कृष्णमूर्ति – प्रसिद्धा भारतीयशास्त्रीयनृत्याङ्गना।
१९४७ – मदनलाल् वर्मा “क्रान्त” – हिन्दीभाषायाः कविः लेखकश्च।
१९४९ – कैलाश शर्मा – प्रसिद्धः हिन्दीब्लॉगरः।
१९५२ – राजकुमार सिंहः – भारतीयजनतापक्षस्य राजनीतिज्ञः।
१९६० – त्रिवेन्द्रसिंह रावतः – उत्तराखण्डदेशस्य अष्टमः मुख्यमन्त्री।
१९८० – के एम बीनू – भारतीयः धावकः ट्रैक् फील्ड् क्रीडकः।
१९९९ – मोहित् ग्रेवालः – भारतदेशस्य मल्लयोद्धा।
---
निधनानि
१९६८ – सोहनसिंह भकना – भारतीयस्वातन्त्र्यसंग्रामस्य क्रान्तिकारी।
१९९४ – अमलप्रवा दास – प्रमुखा सामाजिककार्यकर्त्री।
२०१० – नलिनी जयवन्तः – भारतीयचलच्चित्रजगतः प्रसिद्धा अभिनेत्री।
२०२४ – ओमप्रकाश चौटाला – हरियाणादेशस्य पूर्वमुख्यमन्त्री, इनेलो दलाध्यक्षः, हृदयाघातेन निधनम्।
---
महत्वपूर्णदिवसः
अन्ताराष्ट्रियमानवैक्यदिवसः
हिन्दुस्थान समाचार