गोवा मुक्ति दिवसे राष्ट्रपतिः प्रधानमंत्री च सेनानिभ्यो विहितं नमनं, जनतायै अददात् शुभकामनाः
नवदिल्ली, 19 दिसंबरमासः (हि.स.)।गोवा-मुक्तिदिवसस्य अवसर पर राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्र मोदी तथा केन्द्रीय गृहमन्त्री अमित शाहः शुक्रवासरे गोवां पुर्तगाली-शासनात् मुक्तं कर्तुं यैः सेनानिभिः साहसं बलिदानं च कृतं, तेषां प्रति
राष्ट्रपति द्रोपति मुर्मु (फाइल फोटो)।


नवदिल्ली, 19 दिसंबरमासः (हि.स.)।गोवा-मुक्तिदिवसस्य अवसर पर राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्र मोदी तथा केन्द्रीय गृहमन्त्री अमित शाहः शुक्रवासरे गोवां पुर्तगाली-शासनात् मुक्तं कर्तुं यैः सेनानिभिः साहसं बलिदानं च कृतं, तेषां प्रति नमनं कृत्वा गोवाजनानां उज्ज्वलस्य समृद्धस्य च भविष्यस्य कामनाम् अकुर्वन्।

राष्ट्रपतिः द्रौपदी मुर्मुः सामाजिकमाध्यममञ्चे एक्स इति स्थले अवदत् यत् गोवा-मुक्तिदिवसे राष्ट्रं तान् वीरान् कृतज्ञतया स्मरति, ये औपनिवेशिक-शासनस्य विरुद्धं निरन्तरं संघर्षं कृतवन्तः। सा स्वातन्त्र्यसैनिकानां सशस्त्रबलानां च अडिगं संकल्पं समर्पणं च नत्वा गोवाजनानां उज्ज्वलभविष्यस्य कामनाम् अकरोत्।

प्रधानमन्त्री नरेन्द्र मोदीः अपि एक्स इति मञ्चे प्रकाशिते सन्देशे अवदत् यत् गोवा-मुक्तिदिवसः देशस्य राष्ट्रिययात्रायाः निर्णायकं अध्यायं स्मारयति। अन्यायस्य विरुद्धं स्थित्वा स्वातन्त्र्यार्थं ये संघर्षं कृतवन्तः, तेषां अदम्यं साहसं अद्यापि प्रेरणां ददाति तथा गोवायाः सर्वाङ्गीणविकासस्य प्रयत्नान् दिशां दर्शयति इति सः उक्तवान्।

केन्द्रीयगृहमन्त्री अमित शाहः गोवाजनान् शुभाशयैः अभिनन्द्य अवदत् यत् १९६१ पर्यन्तं भारतीयानां गोवागमनाय अनुमतिः आवश्यकाऽऽसीत्। सः प्रभाकर वैद्य, बाला राय मापारी, नानाजी देशमुख, जगन्नाथ राव जोशी इत्यादीन् महान् पुरुषान् स्मृतवान्, ये गोवामुक्त्यर्थं संघर्षं कृतवन्तः। सः अवदत् यत् देशभक्तानां बलिदानानन्तरमेव गोवा भारतस्य अभिन्नं अङ्गं अभवत्।

उल्लेखनीयं यत् गोवा-मुक्तिदिवसः प्रतिवर्षं १९ दिसम्बरमासस्य दिने आचर्यते। अस्मिन्नेव दिने १९६१ तमे वर्षे गोवा, दमन, दीव च पुर्तगाली-औपनिवेशिक-शासनात् मुक्तानि अभवन्। तस्मिन्काले अत्र पुर्तगालिनां शासनम् आसीत्।

----

हिन्दुस्थान समाचार