भारत-ओमान व्यापारसहमतौ भविष्यति होगा त्रिषु मासेषु विचारः: गोयलः
मस्कटम्, 19 दिसंबरमासः (हि.स)। केन्द्रीयवाणिज्यउद्योगमन्त्री पीयूषगोयलः शुक्रवासरे आशां व्यक्तवान् यत् भारत–ओमानयोः मुक्तव्यापारसहमतिः आगामीत्रिमासाभ्यन्तरे एव प्रवर्तते। अनेन भारतस्य श्रमाधारितनिर्यातेषु किमपि शुल्कं न भविष्यति तथा औषधनिर्माणसम्ब
मस्कट में मीडिया को संबोधित करते हुए वाणिज्‍य मंत्री पीयूष गोयल


मस्कट में मीडिया को संबोधित करते हुए वाणिज्‍य मंत्री पीयूष गोयल


मस्कटम्, 19 दिसंबरमासः (हि.स)।

केन्द्रीयवाणिज्यउद्योगमन्त्री पीयूषगोयलः शुक्रवासरे आशां व्यक्तवान् यत् भारत–ओमानयोः मुक्तव्यापारसहमतिः आगामीत्रिमासाभ्यन्तरे एव प्रवर्तते। अनेन भारतस्य श्रमाधारितनिर्यातेषु किमपि शुल्कं न भविष्यति तथा औषधनिर्माणसम्बद्धानां (फार्मास्युटिकल्) उत्पादानां कृते नियामकीयस्वीकृतयः अपि शीघ्रं प्राप्यन्ते।

केन्द्रीयवाणिज्यउद्योगमन्त्री अत्र आयोजिते एकस्मिन् संवाददातृसम्मेलने सम्बोधनं कुर्वन् अवदत् यत् उभयौ देशौ पूर्वेषु व्यापारसहमती अभवतां विलम्बानां पुनरावृत्तिं न इच्छतः। सः अवदत् — “२००६ तमे वर्षे हस्ताक्षरितस्य ओमान–अमेरिका व्यापारसम्झौतस्य प्रवर्तनाय प्रायः त्रिवर्षाणि व्यतीतानि आसन्। तस्मात् अनुभवात् पाठं गृहीत्वा भारतः ओमानः च अस्य सम्झौतस्य अतिशीघ्रं प्रवर्तनं कर्तुं निर्णयं कृतवन्तौ।” गोयलः एतदपि अवदत् यत् ओमानदेशः डेयरीक्षेत्रे अमूल् डेयरीया सह संयुक्तउद्यमस्य स्थापनायाः विषये रुचिं दर्शितवान्।

गोयलस्य कथनानुसारं ओमानदेशः स्वस्य ९८ प्रतिशताधिकेषु शुल्कीयमदेषु शून्यशुल्कस्य प्रस्तावं दत्तवान्, ये भारतस्य ओमानदेशं प्रति ९९.३८ प्रतिशतं निर्यातं आवृण्वन्ति। वर्तमानकाले एतेषु उत्पादेषु ५ प्रतिशतात् आरभ्य १०० प्रतिशतपर्यन्तं आयातशुल्कं देयं भवति। अपरतः भारतः स्वस्य सकलशुल्कीयमदेषु ७७.७९ प्रतिशतानि अथवा १२,५५६ उत्पादवर्गेषु शुल्कछूटिं प्रदत्तवान्, ये मूल्यदृष्ट्या ओमानात् भारतस्य आयातस्य ९४.८१ प्रतिशतं प्रतिनिधित्वं कुर्वन्ति। ओमानदेशे शून्यशुल्कप्रस्तावेन भारतात् आयातिताः रत्नाभरणानि, वस्त्राणि, चर्मोत्पादाः, पादत्राणानि, क्रीडासामग्री, प्लास्टिक्, उपस्कराणि, फर्नीचर्, कृषिउत्पादाः, अभियान्त्रिकीसम्बद्धोत्पादाः, औषधनिर्माणसामग्री, चिकित्सोपकरणानि तथा वाहनसम्बद्धोत्पादाः विशेषं लाभं प्राप्स्यन्ति।

गोयलः अवदत् यत् ओमानदेशे भारतीयसंस्थानाम् कृते इस्पातः, ऊर्जा, शिक्षा, स्वास्थ्यसेवा इत्यादिषु क्षेत्रेषु बहवः अवसराः सन्ति, विशेषतः संसाधनसम्बद्धेषु उद्योगेषु। सः पाइपलाइनक्षेत्रे एकस्य महतः हरितइस्पातपरियोजनायाः विषये सङ्केतं कृतवान् तथा ऊर्जां हरितहाइड्रोजनं वा हरितअमोनियं रूपेण रूपान्तरयितुं वर्धमानायाः रुचेः अपि उल्लेखं कृतवान्, यत् निर्यातार्थं उपयुज्यते। सः अवदत् यत् ओमानदेशस्य संप्रभुधनकोषः तथा तत्रस्थाः कम्पन्यः भारतदेशे निवेशस्य सम्भावनाः अन्वेष्टुं आमन्त्रिताः आसन्।

अनन्तरं गोयलः “एक्स्” नाम्नि सामाजिकमाध्यमे प्रकाशिते वक्तव्ये अवदत् यत् गुरुवासरे मस्कट् नगरे हस्ताक्षरितस्य भारत–ओमान आर्थिकसाझीदारीकरारस्य विषये सः माध्यमान् सम्बोधितवान्। सः अवदत् यत् कथं भारत–ओमान व्यापकआर्थिकसहकारितासहमतिः (सीईपीए) व्यापारस्य नूतनमार्गान् उद्घाटयिष्यति, भारतस्य निर्यातं प्रोत्साहयिष्यति तथा प्रमुखेषु क्षेत्रेषु व्यापाराय उत्तमान् अवसरान् सृजिष्यति। सः अपि अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदीनः नेतृत्वे भारतदेशेन अनेके महत्त्वपूर्णाः मुक्तव्यापारसहमतयः कृताः, येन विकसितभारत् २०४७ इति दृष्टेः अन्तर्गतं वैश्विकव्यापारसहकारिताः सुदृढाः अभवन्।

---------------

हिन्दुस्थान समाचार