लोकसभायाः कार्यवाही अनिश्चितकालाय स्थगिता
नवदेहली, १९ दिसम्बरमासः (हि.स.)। लोकसभायाः कार्यवाही शुक्रवारे अनिश्चितकालाय स्थगिता अभवत्। सदनस्य कार्यवाही १ दिसम्बरदिनाङ्कात् आरब्धा आसीत्। अद्य प्रातः ११ वादने कार्यवाहीप्रारम्भे लोकसभाध्यक्षः स्वसन्देशे अवदत् यत् अष्टादशलोकसभायाः षष्ठे सत्रे प
लोकसभा अध्यक्ष के कमरे में सभी दलों के नेताओं की बैठक


नवदेहली, १९ दिसम्बरमासः (हि.स.)। लोकसभायाः कार्यवाही शुक्रवारे अनिश्चितकालाय स्थगिता अभवत्। सदनस्य कार्यवाही १ दिसम्बरदिनाङ्कात् आरब्धा आसीत्। अद्य प्रातः ११ वादने कार्यवाहीप्रारम्भे लोकसभाध्यक्षः स्वसन्देशे अवदत् यत् अष्टादशलोकसभायाः षष्ठे सत्रे पञ्चदश सभाः सम्पन्नाः। अस्य सत्रस्य उत्पादकता १११ प्रतिशतं आसीत्। तदनन्तरं ‘वन्दे मातरम्’ इति राष्ट्रीयगीतस्य गानसहितं कार्यवाही अनिश्चितकालाय स्थगिता। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी अपि सदने उपस्थितः आसीत्। संसदस्य शीतकालीनसत्रस्य समाप्त्यानन्तरं लोकसभाध्यक्षः ओमबिरलाः स्वकक्षे विभिन्नराजनीतिकदलानां नेतॄन् सदस्यांश्च समभाषत।

उल्लेखनीयं यत् अस्मिन् सत्रे बहवः महत्त्वपूर्णा विधेयकाः पारिताः। तेषु नाभिकीय-ऊर्जासम्बद्धं विधेयकं तथा मनरेगासम्बद्धं विधेयकं च अन्तर्भूतम्। तदतिरिक्तं सदने ‘वन्दे मातरम्’ इत्यस्य १५० वर्षाणि पूर्णानि इति विषये, तथा निर्वाचनपरिष्कारविषये अपि चर्चा अभवत्। अष्टादशलोकसभायाः षष्ठं सत्रं १ दिसम्बरदिनाङ्कात् आरब्धम् आसीत्। सत्रकाले पञ्चदश सभाः सम्पन्नाः। कुलसभाकालः ९२ होराः २५ निमेषाश्च आसीत्। सत्रकाले दश सर्वकारीविधेयकानि प्रस्तुतानि, अष्टौ विधेयकानि च पारितानि।

अत्र मणिपुरवस्तुसेवाकरः (द्वितीयसंशोधन) विधेयकः, केन्द्रीयोत्पादशुल्कः (संशोधन) विधेयकः, राष्ट्रीयसुरक्षा-उपकरविधेयकः, विनियोगः (संख्या–४) विधेयकः, निरसनसंशोधनविधेयकः, ‘सबका बीमा सबकी रक्षा’ (बीमाकानूनसंशोधन) विधेयकः, भारतरूपान्तरणाय नाभिकीय-ऊर्जायाः सततदोहनविकासविधेयकः, तथा ‘विकसितभारतरोजगारगारन्टी एवं आजीविकाभियान (ग्रामीण)’ वीबी–जी–राम–जी विधेयकः च अन्तर्भूताः।

प्रधानमन्त्रीणाऽपि राष्ट्रीयगीतस्य ‘वन्दे मातरम्’ इत्यस्य १५० वर्षपूर्त्युपलक्ष्ये सदने चर्चा आरब्धा। अस्मिन् विषये ११ होराः ३२ निमेषाः यावत् चर्चा अभवत्, यत्र ६५ सदस्याः सहभागी अभवन्। तथैव ‘निर्वाचनपरिष्कारा’ विषयकचर्चा ९ तथा १० दिसम्बरदिनाङ्कयोः प्रायः १३ होराः यावत् अभवत्, यस्यां ६३ सदस्याः भागं जगृहुः।

सत्रकाले ३०० ताराङ्कितप्रश्नाः स्वीकृताः, ७२ ताराङ्कितप्रश्नानां मौखिकोत्तराणि दत्तानि। कुलं ३४४९ अताराङ्कितप्रश्नाः अपि स्वीकृताः। शून्यकाले सदस्यैः ४०८ अत्यावश्यकसार्वजनिकमहत्त्वविषयाः उद्भाविताः, नियम-३७७ अन्तर्गतं ३७२ विषयेषु विचारः कृतः। विशेषतः ११ दिसम्बरदिनाङ्के शून्यकाले १५० सदस्यैः स्वस्वविषयाः प्रस्तुताः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता