Enter your Email Address to subscribe to our newsletters

मीन्स्कम्, 19 दिसंबरमासः (हि.स.)।
बेलारूसदेशस्य राष्ट्रपतिः अलेक्जेन्डर् लुकाशेन्को इति नामकः प्रमाणितवान् यत् रूसदेशेन स्वस्य नवीनतमं परमाणुशक्तिसमर्थां बैलिस्टिक् क्षेपणास्त्रप्रणालीं “ओरेशनिक” इति नाम्नीं बेलारूसदेशे विन्यस्तं कृतम् अस्ति। सः एतां सूचनां एकस्मिन् पत्रकारसम्मेलने प्रदत्तवान्, किन्तु क्षेपणास्त्राणां संख्या अथवा तेषां विन्याससम्बद्धान् अन्यान् तान्त्रिकविवरणान् न प्रकाशितवान्।
बेलारूसदेशः दीर्घकालादेव मॉस्कोनगरेण सह निकटतमः सहयोगी अस्ति। सन् 2022 तमे वर्षे यूक्रेनदेशे रूसस्य व्यापकसैन्यआक्रमणस्य समये बेलारूसदेशस्य भूमिः सैन्यकार्यानां कृते उपयुक्ता अभवत्। अपि च बेलारूसदेशेन रूसीसेनायै रसदसहाय्यं, वस्त्राणि, उपकरणानि च प्रदत्तानि, यद्यपि तेन स्वसैनिकाः प्रत्यक्षतया युद्धे न नियोजिताः।
रूसदेशेन “ओरेशनिक” क्षेपणास्त्रस्य प्रथमः प्रयोगः सन् 2024 तमे वर्षे नवम्बरमासे यूक्रेनदेशस्य दिनीप्रो-नगरस्थिते रक्षाउद्योगसम्बद्धे स्थले कृतः। तदा रूसीराष्ट्रपतिः व्लादिमीर् पुतिन् उक्तवान् यत् एषः आक्रमणः यूक्रेनदेशेन अमेरिकीय-ब्रिटिश् दीर्घदूरीक्षेपणास्त्राणां रूसीक्षेत्रे प्रयोगस्य प्रत्युत्तररूपेण कृतः।
पुतिन महोदयेन अस्य क्षेपणास्त्रस्य अवरोधनं असम्भवम् इति उक्तं, तथा अस्य मारकशक्तेः परमाण्वस्त्रेण सह तुलनां कृतवान्। तथापि बहवः सैन्यविशेषज्ञाः एतेषु दावेषु संशयं प्रकटयन्ति। बेलारूसदेशे अस्य क्षेपणास्त्रस्य विन्यासेन क्षेत्रीयसुरक्षाविषये चिन्ताः अधिकं गभीराः भवितुम् अर्हन्ति।
---------------
हिन्दुस्थान समाचार