Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 19 दिसंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदीः श्वः द्विदिवसीय यात्रायां असमराज्यं आगमिष्यति। अस्यां यात्रायां सः राज्ये बहूनां महत्वपूर्णानां विकासात्मकानां आधारभूत संरचनासम्बद्धानां च परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति।
गुवाहाटीनगरे प्रधानमन्त्री लोकप्रिय गोपीनाथबर्दलै अन्ताराष्ट्रिय विमानस्थलस्य विश्वस्तरीयं नूतनं टर्मिनलभवनं उद्घाटयिष्यति। तदनन्तरं सः भारतरत्न लोकप्रिय गोपीनाथबर्दलै महोदयस्य अशीतिपादोन्नतां प्रतिमां अनावृत्य तस्मै श्रद्धाञ्जलिं समर्पयिष्यति।
प्रधानमन्त्री विमानस्थलात् अटल बिहारी वाजपेयी भवनं यावत् मार्गयात्रां करिष्यति, मार्गे च सामान्यजनैः सह संवादं करिष्यति। अनन्तरं सः ब्रह्मपुत्रानद्यां “परीक्षा पे चर्चा” इति कार्यक्रमे भागं ग्रहीष्यति, यत्र पञ्चविंशतिः विद्यार्थिनः सह संवादं करिष्यति।
स्वस्य यात्राकाले प्रधानमन्त्री बोरागांवस्थितं विशालं शहीदस्मारकक्षेत्रं निरीक्ष्य शहीदेषु श्रद्धां निवेदयिष्यति। ततः परं सः नामरूपे नूतनस्य उर्वरकपरियोजनायाः शिलान्यासं करिष्यति, येन कृषिक्षेत्रस्य औद्योगिकविकासस्य च वेगः वर्धिष्यते इति अपेक्षा अस्ति।
प्रधानमन्त्रिणः एषा यात्रा असमराज्ये विकासकार्याणां नूतनां दिशां प्रदर्शयति, तथा च पूर्वोत्तरप्रदेशे केन्द्रसरकारस्य विशेषकेन्द्रितदृष्टिं अपि सूचयति।
-------------------------
हिन्दुस्थान समाचार