Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 19 दिसंबरमासः (हि.स.)। प्रधानमन्त्री श्रीमान् नरेन्द्र–मोदी शनिवारदिने द्विदिवसीय–कार्यक्रमस्य अन्तर्गतं असम–राज्यस्य दौराय आगमिष्यन्ति। प्रधानमन्त्री २० तथा २१ दिसम्बर–तिथ्योः विविधेषु शासकीय–कार्यक्रमेषु सहभागं करिष्यन्ति। स्वप्रवासे प्रधानमन्त्री विविधपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। प्रधानमन्त्रिणः आगमनं दृष्ट्वा गुवाहाटी–नगरं पूर्णतया अलङ्कृतं सुसज्जितं च कृतम् अस्ति। सुरक्षाव्यवस्थायाः व्यापकाः व्यवस्थाः कृताः सन्ति तथा प्रशासनं पूर्णरूपेण सतर्क–स्थितौ वर्तते। अधिकारीणां कथनानुसारं, प्रधानमन्त्री–प्रवासस्य दृष्ट्या गुवाहाटी–उत्तर–गुवाहाटी फेरी–सेवा २० तथा २१ दिसम्बर–तिथ्योः मध्याह्न–द्वादश–वादनपर्यन्तं स्थगिता भविष्यति।
प्रधानमन्त्री श्रीमान् नरेन्द्रमोदी–प्रवासे सुरक्षायातायातव्यवस्थायाः सुचारुतां सुनिश्चितुं फेरी–सेवायाः अस्थायी–रूपेण स्थगन–निर्णयः गृहीतः अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता