Enter your Email Address to subscribe to our newsletters

मुरादाबादः, 19 दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुरादाबाद-जनपदे नवीन-मल्टिप्लेक्स-निर्माणार्थं तथा सिनेमागृह/मल्टिप्लेक्स-उच्चीकरणार्थं समेकिता प्रोत्साहन-योजना आरब्धा अस्ति। अपर-जिलाधिकारी (वित्त एवं राजस्व) ममता मालवीयया शुक्रवासरे अवगतं कृतं यत्, जनपदे वर्तमानकाले पिहिताः अथवा प्रचलिताः चलचित्रगृहाणां स्वामिनः, लाइसन्सधारकाः, प्रबन्धकाः, सञ्चालकाः अथवा अन्ये इच्छुकाः व्यक्तयः, फर्माः वा कम्पन्यः अस्याः योजनायाः लाभं प्राप्तुं आवेदनं कर्तुं शक्नुवन्ति।
अपर-जिलाधिकारी (वित्त) इत्यनेन अग्रे अवगतं कृतं यत्, ये सिनेमागृहाणि दीर्घकालात् बन्दानि सन्ति अथवा हानिकररूपेण सञ्चालितानि सन्ति, तानि पूर्णरूपेण विध्वंस्य तेषां स्थाने आधुनिक-सुविधान्वित-लघु-क्षमतायुक्त-सिनेमाहॉल-सहित-व्यावसायिक-संकुलस्य निर्माणं कर्तुं शक्यते।
तथैव—
पुरातन-पिहित-चलचित्रगृहाणाम् अथवा सञ्चालित-सिनेमागृहाणां भवनस्य आन्तरिक-संरचनायां परिवर्तनं कृत्वा पुनः सञ्चाल्याः चलचित्रगृहाणि,
आन्तरिक-संरचनायां किमपि परिवर्तनं न कृत्वा यथास्थितिरूपेण पुनः सञ्चाल्याः पिहित-एकल-चलचित्रगृहम्,
व्यावसायिक-क्रियाकलापैः सह अथवा विना न्यूनतमं पञ्चसप्तति-आसन-क्षमतायुक्त-एकल-स्क्रीन-चलचित्रगृह-निर्माणं,
तथा चलचित्रगृहाणाम/मल्टिप्लेक्साणां उच्चीकरणं— एतदर्थम् एषा योजना प्रवर्तते। शासनस्तरेण निर्गत-निर्देशानां विषये विस्तृत-सूचनायै अथवा अन्य-सहयोग-सहायतार्थं, प्रत्येकं कार्यदिवसे कलेक्ट्रेट-परिसरे मुरादाबाद-स्थिते राज्यकर-सहायकायुक्त-कार्यालये (पूर्वं मनोरञ्जनकर-विभागः) सम्पर्कः कर्तुं शक्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता