सर्वकार द्वारा चालितानां सर्वासां योजनानां लाभं नयन्ति कृषकाः : सतीश चंद्र शर्मा
बाराबंकी, 19 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य बाराबङ्कीजनपदस्य बनिकोडरविकासखण्डे स्थिते शाहपुरमुरारपुरग्रामे शुक्रवासरस्य अपराह्णे कृषकपाठशालायाः आयोजनं कृतम्। अस्य कार्यक्रमस्य मुख्यातिथिः राज्यमन्त्री सतीशचन्द्रशर्मा आसीत्। तेन उक्तं यत् भार
Photo


बाराबंकी, 19 दिसंबरमासः (हि.स.)।

उत्तरप्रदेशस्य बाराबङ्कीजनपदस्य बनिकोडरविकासखण्डे स्थिते शाहपुरमुरारपुरग्रामे शुक्रवासरस्य अपराह्णे कृषकपाठशालायाः आयोजनं कृतम्। अस्य कार्यक्रमस्य मुख्यातिथिः राज्यमन्त्री सतीशचन्द्रशर्मा आसीत्। तेन उक्तं यत् भारतसरकारया राज्यसरकारया च कृषकाणां हिताय बहवः योजनाः सञ्चाल्यन्ते। सः कृषकान् आह्वानं कृतवान् यत् ते सरकारेण प्रवर्तितानां योजनानां अधिकाधिकं लाभं गृह्णीयुः।

कार्यक्रमस्य प्रारम्भे अतिथयः अधिकारीणः च दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भं कृतवन्तः। उपनिदेशकः कृषि धीरेंद्रसिंहः कृषिविभागेन सञ्चालितानां विविधयोजनानां विषये तथा रबीसस्यानाम्ऋतौ कृषिनिवेशानां उपलब्धताविषये विस्तृतां जानकारीं प्रदत्तवान्। कृषिवैज्ञानिकेन डॉ. अर्चितशुक्लेन प्राकृतिककृषेः जैविककृषेः च महत्त्वं तयोः तकनीकाः च विस्तरेण विवृत्ताः। कृषिवैज्ञानिकेन डॉ. अभिषेकरञ्जनेन मिलेट्सकृषेः तथा कृषियान्त्रिक्याः विषये उपयोगी सूचना साझा कृता।

अस्मिन् अवसरॆ भाजपा जिलाउपाध्यक्षः दिलीपमिश्रः, उपनिदेशकः कृषि बाराबङ्की धीरेंद्रसिंहः, जिलाकृषिअधिकारी राजितरामः, भूमिसंरक्षणाधिकारी कुर्सी विनोदकुमारयादवः तथा अन्ये अतिथयः अधिकारीणः च उपस्थिताः आसन्। अस्मिन् कार्यक्रमे त्रिशताधिकाः स्थानीयाः कृषकाः, पशुपालकाः तथा महिला कृषकाः सहभागितां कृतवन्तः।

---------------

हिन्दुस्थान समाचार