Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 दिसंबरमासः (हि.स.)।
उपराष्ट्रपतिः सी.पी. राधाकृष्णनः रविवासरे इन्दौरनगरे आयोजिते अटल बिहारी वाजपेयी जन्मशताब्दीसमारोहॆ मुख्यातिथिरूपेण उपस्थितो भविष्यति। उपराष्ट्रपतिसचिवालयेन शुक्रवासरे प्रदत्तायां सूचनायां कथितं यत् उपराष्ट्रपतिः २१ दिसम्बरतिथौ मध्यप्रदेशस्य इन्दौरनगरं यात्रां करिष्यति।
इन्दौरे अटल फाउण्डेशनद्वारा आयोजिते अटल बिहारी वाजपेयी जन्मशताब्दीसमारोहॆ उपराष्ट्रपतिः मुख्यातिथिरूपेण सहभागं करिष्यति।
अस्मात् पूर्वम् उपराष्ट्रपतिः शनिवासरे तेलङ्गानाराज्यं यात्रां करिष्यति। तत्र सः हैदराबादस्य रामोजी फिल्म सिटीस्थले आयोजिते लोकसेवा आयोगानां अध्यक्षाणां राष्ट्रियसम्मेलनस्य समापनसमारोहॆ मुख्यातिथिरूपेण उपस्थितो भविष्यति। अनन्तरदिने शनिवासरे एव उपराष्ट्रपतिः नन्दिगामास्थिते कान्हा शान्तिवनस्थिते हार्टफुलनेस ग्लोबल मुख्यालये आयोजिते विश्वध्यानदिवससमारोहॆ मुख्यातिथिरूपेण भागं ग्रहीष्यति।
---------------
हिन्दुस्थान समाचार