पारंपरिक चिकित्सायां शिखर सम्मेलनस्य घोषणा पत्रे शोधं प्रतिबलं दत्तम्
नव दिल्ली, 19 दिसंबरमासः (हि.स.)। पारम्परिकचिकित्साविषये भारतमण्डपमे गतत्रिदिनपर्यन्तं विश्वस्वास्थ्यसङ्गठनस्य आयुषमन्त्रालयस्य च संयुक्तया आयोजितस्य द्वितीयस्य वैश्विकशिखरसम्मेलनस्य समापनसमारोहे घोषणापत्रं प्रकाशितम्। अस्मिन् घोषणापत्रे पारम्परिक
पारंपरिक चिकित्सा पर वैश्विक शिखर सम्मेलन के समापन समारोह में प्रधानमंत्री मोदी और विश्व स्वास्थ्य संगठन के महानिदेशक


नव दिल्ली, 19 दिसंबरमासः (हि.स.)।

पारम्परिकचिकित्साविषये भारतमण्डपमे गतत्रिदिनपर्यन्तं विश्वस्वास्थ्यसङ्गठनस्य आयुषमन्त्रालयस्य च संयुक्तया आयोजितस्य द्वितीयस्य वैश्विकशिखरसम्मेलनस्य समापनसमारोहे घोषणापत्रं प्रकाशितम्। अस्मिन् घोषणापत्रे पारम्परिकचिकित्सायां अनुसन्धानकार्येषु विशेषः बलं दत्तम् अस्ति।

घोषणापत्रानुसारं पारम्परिकचिकित्साविषये अनुसन्धानं प्रवर्धयिष्यते, यतः अद्यावधि अस्मिन् क्षेत्रे अल्पं वित्तव्ययं भवति। तदनन्तरं चिकित्सायाः सुरक्षितत्वं प्रभावकारित्वं च सुनिश्चितुं नियमाः निरीक्षणव्यवस्था च सुदृढीकरिष्यन्ते।

पारम्परिकचिकित्सा प्राथमिकस्वास्थ्यसेवाभिः सह संयोजयिष्यते, येन सामान्यजनाः तस्य लाभं प्राप्नुयुः। चिकित्सासम्बद्धानि प्रदत्तानि अभिलेखाः सूचनाः च उत्तमरीत्या सङ्ग्रहीष्यन्ते। स्वदेशीयानां स्थानीयसमुदायानां च भूमिकाः महत्त्वपूर्णाः मन्यन्ते, तेषां ज्ञानस्य सम्मानं च क्रियते।

शिखरसम्मेलने एतदपि कथितं यत् पारम्परिकचिकित्सा केवलं चिकित्सापद्धतिः नास्ति, अपि तु सा एका सामूहिका सांस्कृतिकविरासत् अस्ति, या जनानां पर्यावरणस्य च स्वास्थ्याय आवश्यकी भवति। अस्य घोषणया सह विश्वस्वास्थ्यसङ्गठनं सदस्यदेशैः सह मिलित्वा पारम्परिकचिकित्सां वैश्विकस्वास्थ्यव्यवस्थायाः सुदृढं अङ्गं कर्तुं संकल्पं कृतवान्।

उल्लेखनीयं यत् १७ तः १९ दिसम्बर २०२५ पर्यन्तं विश्वस्वास्थ्यसङ्गठनं भारतसरकारा च संयुक्तया पारम्परिकचिकित्साविषये द्वितीयं वैश्विकशिखरसम्मेलनं आयोजितवन्तौ। अस्मिन् सम्मेलने शताधिकदेशानां मन्त्रीणः अधिकारीणः वैज्ञानिकाः चिकित्सकाः अनुसन्धानकर्तारः पारम्परिकचिकित्सासम्बद्धाः जनाः च भागं गृहीतवन्तः।

शिखरसम्मेलनस्य मुख्योद्देश्यं पारम्परिकचिकित्सां वैज्ञानिकाधारेण सुदृढीकर्तुं तथा च तां सुरक्षितरीत्या जनसामान्यपर्यन्तं प्रापयितुं आसीत्। अस्मिन् आयुर्वेदयूनानीसिद्धहोम्योपैथी अन्यासु च पारम्परिकचिकित्सापद्धतिषु विस्तृता चर्चा अभवत्।

---------------

हिन्दुस्थान समाचार