देशस्य सुरक्षायां निर्णायकां भूमिकां वोक्ष्यति नौसैनिक-तोपः - रंजनः
हरिद्वारः, 19 दिसंबरमासः (हि.स.)। बीएचईएल-इत्यस्य रक्षा-एयरोस्पेस-विभागेन स्वीयायाः ५०तमी सुपर्-रैपिड्-गन्-माउन्ट् (एसआरजीएम्) नौसैनिक-तोपायाः निर्माणकार्यं सफलतया सम्पन्नं कृतम्। बीएचईएल-हरिद्वारस्य कार्यपालक-निदेशकः रञ्जनकुमारः हरितध्वजप्रदर्शन
नेवल गन को रवाना करते हुए


हरिद्वारः, 19 दिसंबरमासः (हि.स.)।

बीएचईएल-इत्यस्य रक्षा-एयरोस्पेस-विभागेन स्वीयायाः ५०तमी सुपर्-रैपिड्-गन्-माउन्ट् (एसआरजीएम्) नौसैनिक-तोपायाः निर्माणकार्यं सफलतया सम्पन्नं कृतम्। बीएचईएल-हरिद्वारस्य कार्यपालक-निदेशकः रञ्जनकुमारः हरितध्वजप्रदर्शनपूर्वकं तां नौसैनिक-तोपां मुम्बई-नगरं प्रति प्रेषितवान्, यत्र सा भारतीय-नौसेनायाः युद्धपोतस्य ‘आईएनएस् महेन्द्रगिरि’ इत्यस्मिन् स्थापिता भविष्यति।

कार्यक्रमं सम्बोधयन् रञ्जनकुमारः अवदत् यत् एषा एसआरजीएम् नौसैनिक-तोपा रक्षा-क्षेत्रे ‘आत्मनिर्भर-भारत’ इति संकल्पनायाः साकारतायै एकं महत्वपूर्णं पदं वर्तते। सः अपि उक्तवान् यत् अस्याः नौसैनिक-तोपायाः निर्माणं आपूर्तिश्च प्रत्येकस्य बीएचईएल-कर्मिणः आत्मगौरवस्य विषयः अस्ति। अस्मिन् अवसरः महाप्रबन्धकः (डीएबीजी) राजीवचौरसिया अवदत् यत् एषा नौसैनिक-तोपा ३५ किलोमीटरपर्यन्तं वायौ, जले तथा समुद्रे च स्थितानां विविधप्रकारकाणां लक्ष्याणां भेदनाय समर्था अस्ति। अपि च लक्ष्यस्य स्थित्यानुसारं विविधप्रकारस्य गोलाबारूदस्य चयनं कर्तुं सा सक्षमाऽस्ति।

उल्लेखनीयं यत् बीएचईएल गतत्रिंशद्वर्षेभ्यः भारतीय-नौसेनायै एसआरजीएम् नौसैनिक-तोपानां निर्माणं कुर्वन् अस्ति, तथा च अद्यावधि आहत्य ४९ तोपानां आपूर्तिं अपि कृतवान्। अस्मिन् अवसरः महाप्रबन्धकाः, भारतीय-नौसेनायाः प्रतिनिधयः, बीएचईएल-स्य अन्ये वरिष्ठ-अधिकारीणः, रक्षा-एयरोस्पेस-विभागस्य दलं, यूनियन-एसोसिएशन-प्रतिनिधयश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA