संसदः उभययोः सदनयोः कार्यवाही अनिश्चितकालाय स्थगिता
नवदेहली, 19 दिसम्बरमासः (हि.स.)। संसदस्य उभययोः सदनयोः कार्यवाही शुक्रवासरे अनिश्चितकालाय स्थगिता। एतेन सह शीतकालीन-सत्रस्य समापनं जातम्। अस्मिन् काले राज्यसभायाः लोकसभायाश्च उत्पादकता क्रमशः 121 प्रतिशतं तथा 111 प्रतिशतं अभवत्। राज्यसभायाः सभापति
राज्य सभा के सभापति सीपी राधाकृष्णन


नवदेहली, 19 दिसम्बरमासः (हि.स.)। संसदस्य उभययोः सदनयोः कार्यवाही शुक्रवासरे अनिश्चितकालाय स्थगिता। एतेन सह शीतकालीन-सत्रस्य समापनं जातम्। अस्मिन् काले राज्यसभायाः लोकसभायाश्च उत्पादकता क्रमशः 121 प्रतिशतं तथा 111 प्रतिशतं अभवत्।

राज्यसभायाः सभापतिः सी.पी. राधाकृष्णनः अवदत् यत् अस्मिन् सत्रे महत्त्वपूर्णं विधायी-कार्यं सम्पादितम्। उच्चसदनस्य सभापतिरूपेण एतत् राधाकृष्णनस्य प्रथमं सत्रम् आसीत्। सदन-कार्यवाही-सञ्चालने सहयोगाय सः उपसभापतिं हरिवंशं, सदस्यान् तथा कर्मचारिणश्च प्रति कृतज्ञतां व्यक्तवान्। तेन उक्तं यत् अस्मिन् सत्रे सदनस्य कार्य-उत्पादकता प्रायः 121 प्रतिशतं आसीत्।

तेन उक्तं यत् 269 तमं सत्रं केषाञ्चन उल्लेखनीयानाम् उपलब्धीनां कारणेन विशिष्टम् आसीत्। अस्मिन् सत्रे शून्यकाल-सूचनानां संख्या अभूतपूर्वा आसीत्, यत्र प्रतिदिनं सरासरी 84 तः अधिकाः सूचनाः प्राप्ताः, या गतयोः द्वयोः सत्रयोः तुलनायां प्रायः 31 प्रतिशतं अधिकाः आसन्। अतिरिच्य, शून्यकाले वास्तवतः उद्घाटितानां विषयाणां संख्या अपि पूर्वमानकानां अपेक्षया अत्यधिकाऽभवत्, यत्र प्रतिदिनं सरासरी 15 तः अधिकाः विषयाः उद्घाटिताः, या गतयोः द्वयोः सत्रयोः तुलनायां प्रायः 50 प्रतिशतं अधिकाः आसन्।

राधाकृष्णनः अवदत् यत् सदनम्‌ अस्माकं राष्ट्रिय-गीतस्य ‘वन्दे मातरम्’ इत्यस्य 150 तमं वर्षगांठां निमित्तीकृत्य विशेषां स्मरणीयां चर्चां कृतवान्। सा चर्चा द्विदिवसपर्यन्तं प्रचलिता, यस्यां 82 सदस्याः सहभागिनः आसन्। सदने निर्वाचन-सुधारणासु अपि चर्चां कृता, यस्यां त्रिदिवसावधौ 57 सदस्यैः अस्माकं लोकतान्त्रिक-प्रक्रियाणां सुदृढीकरणाय स्वानि बहुमूल्यानि विचाराणि प्रस्तुतीकृतानि।

तेन उक्तं यत् सदने अष्ट विधेयकानि पारितानि/प्रत्याहृतानि च, तथा जल (प्रदूषण-निवारण-नियन्त्रण) संशोधन-अधिनियम, 2024 सम्बन्धे एकः सांविधिकः संकल्पः अपि अंगीकृतः, यस्मिन् कुलतः 212 सदस्याः सहभागी अभवन्। समग्रतः सदने प्रायः 92 होराः कार्यं कृतम्। अस्य सत्रस्य उत्पादकता 121 प्रतिशतं आसीत्। अस्मिन् काले 85 तारांकित-प्रश्नाः, 208 शून्यकाल-प्रस्तुतयः तथा 87 विशेष-उल्लेखाः अभवन्।

लोकसभायाः अध्यक्षः ओम् बिरला एक्स्-माध्यमे लिखितवान् यत् 18‌‌ त्तमं लोकसभायाः षष्ठं सत्रम् अद्य सफलतया समाप्तम्। एतत् सत्रं 2025 तमे वर्षे दिसम्बर-मासस्य प्रथमदिवसम् आरब्धम्, यस्मिन् कुलतः 15 गोष्ठ्यः आयोजिताः। सर्वेषां सदस्यानां सहयोगेन सदनस्य उत्पादकता प्रायः 111 प्रतिशतं अभवत्। सदन-कार्यवाहीस्य सुचारु-सञ्चालनाय प्रधानमन्त्री, विपक्षनेता, सत्तापक्ष-विपक्षयोः सर्वान् सदस्यान्, लोकसभा-सचिवालयं तथा माध्यमान् प्रति सः हार्दिकं कृतज्ञतां व्यक्तवान्।

उल्लेखनीयं यत् अनिश्चितकालाय स्थगनस्य अर्थः एषः यत् अस्य सत्रस्य अधुना काचिद् अपि आगामी गोष्ठ्यः न भविष्यन्ति। आगामी सत्रं केन्द्रसर्वकारस्य अनुशंसायां राष्ट्रपतिनः अनुमत्याः पश्चात् आहूतं भविष्यति।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता