Enter your Email Address to subscribe to our newsletters

फतेहपुरम्, 19 दिसम्बरमासः (हि.स.)।
उत्तरप्रदेशस्य फतेहपुर-जनपदस्य निवासी शैलेन्द्रकुमारः उत्तमः पटेलः भारतरत्नस्य लौहपुरुषस्य सरदार-वल्लभभाई-पटेलस्य ०५ किलोग्राम-लोहकीलाभिः निर्मितं भित्तिचित्रं प्रदेशस्य मुख्यमन्त्रिणे योगी आदित्यनाथाय समर्पितवान्। मुख्यमन्त्रिणा तां कलाकृतिं दृष्ट्वा तस्य एतत् प्रशंसनीयं कार्यं विशेषतया स्तुतम्। अमौली-विकासखण्डस्य सरांय-धरमपुर-ग्रामस्य निवासी शैलेन्द्रकुमारः उत्तमः पटेलः स्वीयाया अद्वितीयायाः कलायाः उत्कृष्टं प्रदर्शनं कृतवान्। एतस्मात् पूर्वं सः गोधूमदानैः भारतीयमुद्रायाः एकरूप्यकस्य सिक्कं, अलसीदानैः स्वामी-ब्रह्मानन्दस्य प्रतिमां, तथा कङ्कड-पाषाणैः उत्तरप्रदेश-दर्पणस्य कलाकृतिं निर्मितवान् अस्ति।
एषा कलाकृतिः १५ डिसम्बर-दिने लखनऊ-नगरस्य जीपीओ-पार्के प्रदेशस्य मुख्यमन्त्रिणे समर्पिता। शैलेन्द्र-उत्तम-पटेलः अवदत् यत् देशस्य अखण्डतायै लौहपुरुषस्य सरदार-पटेलस्य योगदानं दृष्ट्वा एतत् चित्रं तिरङ्गवर्णैः अलङ्कृतम्। अस्मिन् चित्रे तिरङ्गस्य वर्णाः लौहपुरुषस्य दृढनिश्चयात्मकां शक्तिं देशस्य एकता-अखण्डतायाः प्रतीकरूपेण प्रदर्शयन्ति।
सः अपि अवदत् यत् लोहेन निर्मितां कीलाकलाकृतिं दृष्ट्वा मुख्यमन्त्री योगी आदित्यनाथः न केवलं प्रशंसां कृतवान्, अपि तु तस्य उत्साहवर्धनम् अपि कृतवान्। अस्य अद्भुतकलायाः कारणेन शैलेन्द्रः तदा विशेषचर्चायाम् आगतः, यदा सः २०१७ तमे वर्षे २ क्विन्टल् २१ किलोग्राम-गोधूमदानैः भारतीयमुद्रारूपेण एकरूप्यकस्य सिक्कं निर्मितवान् आसीत्। अस्य कार्यस्य कारणेन तस्य नाम लिम्का-बुक्-ऑफ्- भिलेखे मध्ये अंकितम् अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता