Enter your Email Address to subscribe to our newsletters

प्रयागराजः 02 दिसम्बरमासः (हि.स.)। माघमेले २०२६ सकुशलसमापनार्थं प्रशासनं तदनुरूपेषु व्यवस्थासु निरतम् अस्ति। श्रद्धालून् जलनिमज्जनदुर्घटनाभ्यः रक्षितुं षट् उपकेन्द्राणि निर्मीयन्ते, यत्र चत्वारिंशद् गोताखोराः नियोजिताः भविष्यन्ति। एतत् विवरणं मङ्गलवासरे मेलायाः आरक्षक-अधीक्षकः नीरजः पाण्डेय महोदयः प्रदत्तवान्।
ते अवोचन् यत् माघमेले आगच्छन्तः श्रद्धालवः जलनिमज्जनघटनाभ्यः सुरक्षिताः स्युः इति निमित्तम् अस्मिन् वर्षे जल-आरक्षकदलस्य द्वारा चत्वारिंशद् गोताखोरैः सह षट् उपकेन्द्राणि निर्मीयन्ते। एस्-डी-आर्-एफ् तथा एन्-डी-आर्-एफ् इत्येतयोः एकैकं दलं सर्वत्र भ्रमन्तं सुरक्षा-व्यवस्थां सुनिश्चितं करिष्यति।
श्रद्धालुभ्यः नावेः अतिमूल्यं न गृह्यते इति सुनिश्चितार्थं लोकनिर्माण-विभागस्य अधिकारिणः नाविकान् प्रति आदेशं दत्तवन्तः यत् ते स्वनौकासु अनुमत-मूल्यं हेल्पलाइन-सङ्ख्याचिह्नं च अनिवार्यतया मुद्रयन्तु, ततः पश्चात् एव परीक्षण-प्रमाणपत्रं (Testing Certificate) दास्यते। यदि कोऽपि नाविकः प्रमाणपत्रविना नौकां सञ्चालयन् दृश्यते तर्हि तस्य विरुद्धं कठोरम् उपायं भविष्यति। माघमेले २०२६ यातायात-व्यवस्थां अधिकं सुगमां कर्तुम् विधानस्य दृष्टीया मण्डलायुक्तस्य च आरक्षक-आयुक्तस्य च संयुक्त-अध्यक्षतायां ट्राफिक-मूवमेंट-योजना-संबन्धिनी बैठकाऽपि सम्पन्ना अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता