Enter your Email Address to subscribe to our newsletters

रायगढम्, 2 दिसंबरमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेव सायः अद्य मङ्गलवासरे रायगढस्य बोईरदादरस्थिते गोवर्धनपुरमार्गे शालिनी विद्यालयस्य समीपे आयोजिते अखिलभारतीय कंवरसमाजस्य वार्षिकसम्मेलनकार्यक्रमे सम्मिलितः। अस्मिन् अवसरे समाजप्रधानानां याचनां कृत्वा, सामुदायिकभवने ३० लक्षरूप्यकाणां व्यये निर्मितं प्रथमतलम् उद्घाटितवान्।
उक्तसम्मेलनसमये लोकसभा सांसदः राधेश्याम राठिया, राज्यसभा सांसदः देवेंद्रप्रतापसिंहः, राष्ट्रीय अनुसूचितजनजातीय आयोगस्य पूर्वअध्यक्षः डॉ. नंदकुमार सायः, विशिष्टाः अतिथयः श्रीमती कौशल्या साय, श्रीमती स्वधा साय, तथा कंवरसमाजस्य राष्ट्रीय, राज्य-च जिला-स्तरीय पदाधिकारीणः च उपस्थिताः।
सह च कलेक्टरः मयंक चतुर्वेदी, पुलिस अधीक्षकः दिव्यांग पटेल, डीएफओ अरविन्द पीएम, जिला पंचायत सीईओ अभिजीत बबन पठारे च प्रशासनिक अधिकारीणां समवायः आसीत्। एवं च समाजस्य महती संख्या अपि उपस्थिता आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता