Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 02 दिसम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्रिणा डॉ. हिमन्त-बिस्व-शर्मणा भारतीयजनता-पक्षस्य राष्ट्रीयाध्यक्षेन च केन्द्रिय-मन्त्रिणा जेपी नड्डा-जी इत्येताभ्यां जन्मदिन-निमित्तं शुभाशंसनानि दत्तानि।
मुख्यमन्त्रिणा मंगलवारे सामाजिक-माध्यमे ‘एक्स्’ नाम्नि लिखितम्— “राष्ट्रीयाध्यक्ष तथा केन्द्रिय-मन्त्री जेपी नड्डा-वर्येभ्यः जन्मदिनस्य हार्दिकाः शुभकामनाः।
तेषां सरलता, विनम्रता, कर्मठ-नेतृत्वं च तान् कार्यकर्तृणां देशवासिनां च मध्ये अतीव प्रियं कृत्वा स्थितम्। सङ्गठनस्य सशक्तीकरणे देश-सेवायां च तेषां योगदानस्य कृते वयं सर्वदा कृतज्ञाः। मा कामाख्या तथा महापुरुषः श्रीमन्त-शङ्करदेवः तान् दीर्घं, स्वस्थं, ऊर्जस्वलं च जीवनं दद्याताम्।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता