Enter your Email Address to subscribe to our newsletters

नवदेहली, 02 दिसम्बरमासः (हि.स.)।देहली-नगरे विद्यालयेषु बालकानां सुरक्षां दृढतरां कर्तुं मङ्गलवारे मुख्यमन्त्री रेखा गुप्ता 2,082 विद्यालयेषु “आपदायै सज्जाः विद्यालयाः” (डिजास्टर रेडी स्कूल्स) इति अभियानस्य औपचारिकं शुभारम्भं कृतवती। अस्मिन्नेव अवसरे उपराज्यपालः विनयकुमारः सक्सेना तथा मन्त्री आशीषसूदः अपि उपस्थितौ आस्ताम् ।
मुख्यमन्त्रिणा कथितं यत् अस्य अभियानस्य विस्तारः राजधानीस्थितेषु सर्वेषु विद्यालयेषु करणीयः अस्ति, येन प्रत्येकः बालकः, प्रत्येकः अध्यापकः तथा प्रत्येकं संस्थानं आपदास्थितौ पूर्णतया सज्जं भवेत्। अस्य अभियानस्य अन्तर्गतं प्रत्येकः विद्यालयः स्वीयां आपदा-प्रबन्धन-योजनां निर्मास्यति। तथैव नियमित-मॉक-ड्रिल्स् (अनुकरण-अभ्यासाः) आयोजिताः भविष्यन्ति, येन आपत्कालीनस्थितौ शान्तभावेन सम्यक् निर्णयं कर्तुं बालकानां प्रशिक्षणं भवेत्। विद्यालयेषु कार्यरताः दलाः अपि विशेष-प्रशिक्षणं प्राप्स्यन्ति, यत् वास्तविक-संकट-समये बहूनां जीवनरक्षणे सहायकं सिद्धं भविष्यति। एषः महत्त्वपूर्णः विषयः राष्ट्रिय-आपदा-प्रबन्धन-प्राधिकरणेन (एनडीएमए), जनपद-आपदा-प्रबन्धन-प्राधिकरणेन (डीडीएमए) तथा शिक्षा-विभागेन संयुक्तरूपेण सञ्चाल्यते, येन देहली-नगरस्य कश्चन अपि विद्यालयः सुरक्षा-सज्जतायां पश्चाद्भावे न तिष्ठेत्।
आशीषसूदः अवदत् यत् एनडीएमए, डीडीएमए तथा शिक्षा-विभागस्य समन्वित-प्रयासैः एषः अभियानः शीघ्रमेव 5,500 तः अधिकान् विद्यालयान् आच्छादयिष्यति, येन देहलीस्थितेषु सर्वेषु बालकेषु अधिकं सज्जं, आत्मविश्वासयुक्तं तथा लचीलं भविष्यं निर्मीयते। अभियानस्य शुभारम्भ-अवसरे एनडीएमए तथा डीडीएमए इत्ययोः वरिष्ठ-अधिकारीणौ अपि उपस्थितौ आस्ताम्।
हिन्दुस्थान समाचार / Dheeraj Maithani