Enter your Email Address to subscribe to our newsletters

भोपालम्, 2 दिसंबरमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहन-यादवः अद्य मङ्गलवारे विभागीय-समीक्षां करिष्यति। समीक्षा-सभासु सम्बद्ध-विभागीय-मन्त्रिणः अधिकारीण्श्च उपस्थिताः भविष्यन्ति। अस्मिन् सम्बन्धे मुख्यमन्त्रि-कार्यालयात् प्राप्तया सूचनया अनुसरन् मुख्यमन्त्री डॉ. यादवः मङ्गलवारे विधायिका-भवने मध्याह्ने द्वितीयवादनादारभ्य द्वौ-अर्धवादनपर्यन्तं पंचायत्-ग्राम्य-विकास-विभागस्य समीक्षां करिष्यति यस्मिन् मन्त्री प्रह्लादसिंहः पटेलः उपस्थितः भविष्यति। मध्याह्ने त्रयोवादनात् त्रयः-अर्धवादनपर्यन्तं विद्यालय-शिक्षा-विभागस्य समीक्षां करिष्यति, यस्मिन् विभागीयः मन्त्री उदय-प्रतापः सिंहः उपस्थितः भविष्यति। सायं चतुर्वादनात् चतुरः-अर्धवादनपर्यन्तं नर्मदा-घाटी-विकास जल-संसाधन-विभागयोः समीक्षां करिष्यति, यस्मिन् विभागीयः मन्त्री तुलसीरामः सिलावटः उपस्थितः भविष्यति। सायं चतुरः-अर्धवादनात् पञ्चवादनपर्यन्तं ऊर्जा नवीन-नवकरणीय-ऊर्जा-विभागयोः समीक्षां करिष्यति, यस्मिन् विभागीयौ मन्त्री प्रद्युम्नसिंहः तोमरः तथा विभागीय-मन्त्री राकेशः शुक्लः उपस्थितौ भविष्यतः।
एताभ्यः सभाभ्यः अतिरिक्तं परदिने पुनः मुख्यमन्त्री डॉ. यादवः बुधवारे वल्लभ-भवने मध्याह्ने एकादशवादनादारभ्य द्वादशवादनपर्यन्तं लोक-स्वास्थ्य परिवार-कल्याण-विभागस्य समीक्षां करिष्यति, यस्मिन् उपमुख्यमन्त्री विभागीयश्च मन्त्री राजेन्द्रः शुक्लः उपस्थितः भविष्यति। द्वादशवादनात् एकवादनपर्यन्तं सहकारिता-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् विभागीयः मन्त्री विश्वासः सारङ्गः उपस्थितः भविष्यति। मध्याह्ने एकवादनात् एकम्-अर्धवादनपर्यन्तं महिला-शिशु-विकास-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् विभागीय-मन्त्री निर्मला भूरिया उपस्थित भविष्यति।
सह एव ते मध्याह्ने एकम्-अर्धवादनात् द्वौ-वदनपर्यन्तं पिछडा-वर्ग अल्पसंख्यक-कल्याण-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् विभागीय-राज्यमन्त्री (स्वतन्तप्रभार) कृष्णा गौरः उपस्थितः भविष्यति। मध्याह्ने त्रयः-अर्धवादनात् चतुर्वादनपर्यन्तं सामाजिक-न्याय निःशक्तजन-कल्याण-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् विभागीयः मन्त्री नारायणसिंहः कुशवाहा उपस्थितः भविष्यति। मध्याह्ने चतुर्वादनात् पञ्चवादनपर्यन्तं कृषि कृषक-कल्याण उद्यानिकी खाद्य-प्रसंस्करण-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् विभागीय-मन्त्री एडालसिंहः कषाणः तथा मन्त्री नारायणसिंहः कुशवाहा उपस्थितौ भविष्यतः।
मुख्यमन्त्री डॉ. यादवः अष्टम-डिसेम्बर-सोमवारे खजुराहो-प्रदेशे मध्याह्ने एकादशवादनात् एकादशवादनार्धपर्यन्तं खाद्य-नागरिक-आपूर्ति-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् विभागीयः मन्त्री गोविन्दसिंहः राजपूतः उपस्थितः भविष्यति। ततः एकादशवादनार्धात् द्वादशवादनपर्यन्तं वाणिज्यिक-कर-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् उपमुख्यमन्त्री विभागीयश्च मन्त्री जगदीशः देवडा उपस्थितः भविष्यति। मध्याह्ने द्वादशवादनात् द्वादशवादनार्धपर्यन्तं पशुपालन डेयरी-विकास-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् विभागीयः मन्त्री लखनः पटेलः उपस्थितः भविष्यति। तस्मिन् एव स्थले मध्याह्ने द्वादशवादनत्र्यर्धात् एकवादनत्र्यर्धपर्यन्तं नगरीय-विकास आवास-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् विभागीयः मन्त्री कैलाशः विजयवर्गीयः उपस्थितः भविष्यति। मध्याह्ने चतुर्वादनात् चतुर्वादनत्र्यर्धपर्यन्तं जनजाति-कृत्य अनुसूचित-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् विभागीयः मन्त्री कुँ. विजयः शाहः तथा मन्त्री नागरसिंहः चौहानः उपस्थितौ भविष्यतः। मध्याह्ने चतुर्वादनत्र्यर्धात् पञ्चवादनत्र्यर्धपर्यन्तं सूक्ष्म-लघु-मध्यम-उद्यम-विभागस्य समीक्षां करिष्यति, यस्मिन् विभागीयः मन्त्री चैतन्यः काश्यपः उपस्थितः भविष्यति।
मुख्यमन्त्री डॉ. यादवः नवम-डिसेम्बर-मङ्गलवारे खजुराहो-प्रदेशे मध्याह्ने द्वादशवादनात् द्वादशवादनत्र्यर्धपर्यन्तं लोक-निर्माण-विभागस्य समीक्षां करिष्यन्ति, यस्मिन् विभागीयः मन्त्री राकेशसिंहः उपस्थितः भविष्यति। ततः मध्याह्ने द्वादशवादनत्र्यर्धात् एकवादनत्र्यर्धपर्यन्तं लोक-स्वास्थ्य-यान्त्रिक-विभागस्य समीक्षां करिष्यति, यस्मिन् विभागीयः मन्त्री सम्पतिया उइके उपस्थितः भविष्यति। एतेन सह मुख्यमन्त्री डॉ. यादवः मध्याह्ने त्रयःवादनात् सायं पञ्चवादनपर्यन्तं मन्त्री-परिषदः सभाम् करिष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता